SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ RECOREGARLSCRECORIANICALCSCRMSCRE% ६पेतरभेदेन करणमाह-सादि चक्षुःस्पर्श, चाक्षुषमित्यर्थः, अनादि, आदिशब्दात् शकचापादिपरिग्रहः, 'अचक्खुऐत्ति अचा क्षुष-अण्वादि, आदिशब्दाद् व्यणुकादिपरिग्रहः, करणता चेह कृतिः करणमितिकृत्वा, अन्यथा वा स्वबुद्ध्या योजनीया ॥ सम्प्रति चाक्षुषाचाक्षुषमेदमेव विशेषेण प्रतिपादयति संघाय-मेअ-तदुभयकरणं इंदाउहाइ पच्चक्खं । दुअअणुमाईयाणं छउमत्थाईणऽपचक्खं ॥ १५५॥ (भा.) | संघातः संहननं, भेदो विघटनं, तच्छब्देन सङ्घातभेदौ परामृश्येते, तच्च तत् उभयं च तदुभयं, सङ्घातभेदतदुभयैः करणं, क्रियते इति कर्मसाधनः करणशब्दः, सङ्घातभेदतदुभयकरणं इन्द्रायुधादि स्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं, चाक्षुपमित्यर्थः, तथाहि-अचादीनां क्वचित् केचित् पुद्गलाः संहन्यते एव क्वचित् केचित् भिद्यन्त एव क्वचित् केचित् संहन्यन्ते भिद्यन्ते चेति सङ्घातभेदतदुभयकरणं, ध्यणुकादीनां आदिशब्दात् तथाविधानन्ताणुकान्तानां पुनः, करणमिति वर्तते, छद्मस्थादीनां आदिशब्दः स्वगतानेकमेदप्रतिपादनार्थमाह, अप्रत्यक्षम् , अचाक्षुषमित्यर्थः, उक्तं विस्रसाकरणम् , अधुना प्रयोगकरणं वक्तव्यम्, तत्र प्रयोगो नाम जीवव्यापारःतेन यद् विनिर्माप्यते सजीवमजीवं वा तत् प्रयोगकरणं, उक्तं च-"होइ पयोगो जीववावारो तेण जं विणिम्मायं । सज्जीवमजीवं वा पयोगकरणं तयं बहुहा ॥१॥" एतदेवाह- . . | जीवमजीवे पाओगिरंतु चरिमं कुसुंभरागाई। जीवप्पओगकरणं मूले तह उत्तरगुणे अ॥ १५६ ॥ (भा.) । हा प्रायोगिकं करणं द्विधा-जीवे अजीवे च, जीवप्रायोगिकमजीवप्रायोगिकं चेत्यर्थः, प्रयोगेण निवृत्तं प्रायोगिकं, तत्र चर-1 मम्-अजीवप्रयोगकरणं कुसुंभरागादि, आदिशब्दात् शेषवर्णादिपरिग्रहः, एवं तावदल्पवक्तव्यत्वादमिहितं ओघतोज्जीव-* था.सू.१. ५ For Private & Personal Use Only jainelibrary.org Jain Education Inter
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy