________________
श्री आव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५५८ ॥
Jain Education Inte
नामकरणसंज्ञाकरणयोर्भेदः, ननु यदि न संज्ञाकरणं तदर्थविहीनं करणशब्दार्थरहितं ततः किं कस्माद् द्रव्यकरणं १, भावकरणं हि तत्प्राप्नोतीति भावः, उच्यते, यतस्तेन पेलुकरणादिना पूणिकादिद्रव्यं क्रियते तेन करणमित्युच्यते, करणमिति संज्ञा च तत्र रूढेति संज्ञाद्रव्यकरणमिति । नोसंज्ञाद्रव्यकरणं द्विधा प्रयोगतो विस्रसातश्च तथा चाह- 'वीससपयोगे । तत्र विश्रसाकरणं द्विधा-साद्यनादिभेदात्, तदाह
बीसंसकरणमणाई घम्माईण परपचया जोगा । साई चक्खुप्फासिय-मन्भाई अचक्खुमणुमाइ ॥ १५४॥ (भा.)
विश्रसा - स्वभावो भण्यते तेन करणं विश्रसाकरणम्, करणशब्दस्य च कृतिः करणं क्रियते तदिति करणं क्रियते। अनेन वा करणमिति यथायोगं व्युत्पत्तिरवसतव्या । अत्र तु भावसाधनः, अनादि-आदिरहितं धर्मादीनां धर्माधर्माकाशास्तिकायानां, अन्योऽन्यसमाधानमिति गम्यते, आह - करणशब्दस्तावद पूर्वप्रादुर्भावे वर्त्तते, करणं चानादि चेति परस्प रविरुद्धं, उच्यते, न खल्ववश्यमपूर्वप्रादुर्भाव एव करणशब्दो वर्त्तते, किं तु अन्योऽन्यसमाधानेऽपि तथा पूर्वाचार्यापदेशतो न कश्चिद्दोषः, अथवा परप्रत्यययोगादिति - परवस्तुप्रत्ययात् - सहकारिवस्तुयोगात् धर्मास्तिकायादीनां या विश्रसातः तथा योग्यता सा करणं, एवमप्यनादिता विरुद्ध्यते इति चेत्, नैष दोषः, अनन्तशक्तिप्रचितद्रव्यपर्यायोभयरूपत्वे सति वस्तुनी द्रव्यादेशेनाविरोधात्, गहनमेतत् सूक्ष्मधिया भावनीयम्, अथवा विश्रसाकरणं धर्मादीनां परस्परसमाधानरूपं करणमनादि, यत् पुनः परप्रत्यययोगतस्तत्तत्पर्यायभवनं, देवदत्तादिसंयोगतो ये धर्मादीनां विशिष्टाः पर्याया इत्यर्थः, तत् सादिकरणं ॥ एवमरूपिद्रव्याण्यधिकृत्य साद्यनादिविश्रसाकरणमुक्तम् ॥ अधुना रूपिद्रव्याण्यधिकृत्य साद्येव वा चाक्षु
For Private & Personal Use Only
विश्रसाकरणं
।। ५५८ ॥
www.jainelibrary.org