SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ LOCAUCRACKAGARRUKHIRAL कयपंचनमोकारो करेइ सामाइयंति सोऽभिहितो। सामाइयंगमेव यजसो सेसं अतो वोच्छ॥१०२७॥ | कृतः पञ्चनमस्कारो येन स तथाविधः, शिष्यः सामायिक करोतीत्यागमः, स च पश्चनमस्कारोऽभिहितो यस्मादसौर नमस्कारः सामायिकाङ्गमेव, सा च सामायिकाङ्गता प्रागेवोका, अत ऊर्च शेष सूत्रं वक्ष्ये ॥ तच्चेदंकरेमि भंते! सामाइयं सर्व सावजं जोगं पच्चक्खामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥१॥ (सूत्रं) . । इदं च सूत्रं सूत्रानुगम एव प्राप्तावसरेऽहीनाक्षरादिगुणोपेतमुच्चारणीयम्, तद्यथा-अहीनाक्षरमनत्यक्षरं अव्याविद्धाक्षरमस्खलितममिलितमव्यत्याडितं प्रतिपूर्ण प्रतिपूर्णघोषं कण्ठोष्ठविप्रमुकं वाचनोपगत मिति, अमूनि च पदानि प्राग व्याख्यातत्वात् न व्याख्यायन्ते, एवंरूपे च सूत्रे उच्चरिते सति केषाश्चिद्भगवतां साधूनां केचन अधिकारा अधिगता भवंति, केचन त्वनधिगताः, ततश्चानधिगताधिगमनाय व्याख्या प्रवर्त्तते, तल्लक्षणं चेदम्-संहिता च पदं चैव, पदार्थः । पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तंत्रस्य षड्विधा ॥१॥ अस्खलितपदोच्चारणं संहिता, अथवा परः सन्निकर्षः | संहिता, यथा-करेमि भंते ! सामाइयमित्यादि, जाव वोसिरामित्ति, पदं च पञ्चधा, तद्यथा-नामिकं नैपातिकं औपसर्गिक|माख्यातिकं मिश्रं च, तत्र अश्व इति नामिक, खावति नैपातिक, परीत्यौपसर्गिक, धावतीत्याख्यातिकं, संयत इति मिश्रं, अथवा द्विविधं पदं-स्याद्यन्तं पदं तिबाधंतं च, अत्र पञ्चविधानि द्विविधानि वा पदानि, तद्यथा-करोमि भयान्त! Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy