________________
4G
श्रीआव० मलयगि. वृत्तौ सूत्रस्पर्शिका
॥५५६॥
RECECRECARSA
सामायिक सर्व सावधं योगं प्रत्याख्यामि यावजीवया त्रिविघं त्रिविधेन मनसा वाचा कायेन न करोमिन कारयामि
कुर्वन्तमपि अन्यं न समनुजाने, तस्य भयान्त! प्रतिक्रामामि निन्दामि गहें आत्मानमुत्सृजामीति पदानि । अधुना पदार्य: व्याख्या ६ स च चतुर्विधः, तद्यथा-कारकविषयः समासविषयः तद्धितविषयो निरुक्तिविषयश्च, तत्र कारकविषयो यथा पचतीति
पाचकः, समासविषयो यथा राज्ञः पुरुषः राजपुरुषः, तद्धितविषयो यथा वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयो यथा भ्रमति च रौति च भ्रमरः, अत्रापि 'डुकुञ् करणे इत्यस्य मिप्रत्ययान्तस्य 'कृस्तनादेरु' रिति उकारे गुणे च कृते करोमीति भवति, अभ्युपगमश्चास्यार्थः, एवं प्रकृतिप्रत्ययविभागः सर्वो वक्तव्यः, इह तु ग्रन्थगौरवभयान्नोच्यते, भयं-प्रतीतं वक्ष्यामश्चोपरिष्टात्, अन्तो-विनाशः, भयस्यान्तो भयान्तः, अयमेव पदविग्रहः, पदपृथक्करणं पदविग्रहः, तस्य सम्बोधनं भयंन्तेति, सामायिकपदार्थः पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवयं-पापं, सहावद्येन यस्य येन वा स सावद्यः तं, सपापमित्यर्थः, योगो-व्यापारस्तं, प्रत्याख्यामि, प्रतिशब्दः प्रतिषेधे, आङ् आभिमुख्य, ख्या प्रकथने, ततः प्रत्याख्यामीति किमुकं भवति !, सावद्ययोगस्य प्रतीपमभिमुखं ख्यापनं करोमि इति, अथवा पञ्चक्खामीति प्रत्याचक्षे इति शब्दसंस्कारः, 'चक्ष व्यक्तायां वाचि' अस्य प्रत्यापूर्वस्य प्रयोगः,प्रत्याचक्षे इति कोऽर्थः?-प्रतिषेधस्यादरेणाभिधानं करोमि, यावज्जीवयेत्यत्र यावच्छब्दःपरिमाणमर्यादाऽवधारणवचनः, तत्र परिमाणे यावन्मम जीवनपरिमाणं तावत्प्रत्यारव्यामीति, मर्यादायां यावज्जी-18 ॥५५६॥ ४ वनमिति मरणं मर्यादीकृत्य आरात्, न मरणकालमात्र एवेति, अवधारणे यावत् जीवनमेव तावत् प्रत्याख्यामि, न तस्मात् है
परत इत्यर्थः, जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते, वया, अथवा प्रत्याख्यानक्रिया परिगृह्यते, यावजीवो यस्यां सा
RECARAK
Jain Education Integer
For Private & Personal use only
M
ainelibrary.org