________________
श्रीभाव० मलयगि० वृत्ती सूत्रस्पर्शिका
॥ ५५५ ॥
Jain Education International
मम पाणियं जा मरामि, सावगो भणइ-इमं नमोक्कारं पढ, जा ते आणेमि पाणिय, जइ वीसारेहिसि तो ते आणीयंपि न देमि, सो ताए लोलयाए पढइ, सावगोवि पाणियं गहाय आगतो, एतं वेलं पाहामोत्ति, णमोक्कारं घोसंतस्स विणिग्गतो जीवो, जक्खो उववन्नो, सावगो तेहिं मणूसेहिं गहितो चोरभत्तदायगोत्ति, रण्णो निवेइयं, भणइ एयंपि सूले भिंदह, आघायणं निज्जइ, जक्खो ओहिं पउंजइ, पेच्छइ सावगं, अप्पणो य सरीरं, ततो पत्थ (ब) यं उप्पाडिऊण नयरस्स उवरिं ठवइ, भणइ य-सावयं न याणह ?, खामेह, मा भे अन्नहा सबे चूरामि, ततो मुक्को खामितो, विभूईए नयरं पवेसितो, नयरस्स पुवेण जक्खस्स आययणं कथं, एवं नमोक्कारेण फलं लब्भइ ॥ उक्ता नमस्कारनिर्युक्तिः ॥ सम्प्रति सूत्रोपन्यासार्थः, प्रत्यासत्तियोगतः परमार्थेन सूत्रस्पार्शक नियुक्तिगतामेव गाथामाह
नंदिमणुओगदारं विविदुवग्घाइअं च नाऊणं । काऊण पंचमंगलमारंभो होइ सुत्तस्स ॥ १०२६ ॥ नन्दिश्चानुयोगद्वाराणि च नन्द्यनुयोगद्वारं, समाहारत्वादेकवचनं, विधिवत् - यथावत् यथाविधि उपोद्घातं च'उद्देसे निद्देसे य' इत्यादिलक्षणं ज्ञात्वा - विज्ञाय, पाठान्तरं भणित्वा, तथा कृत्वा पश्च मङ्गलानि, नमस्कारमित्यर्थः, किं ?, आरम्भो भवति सूत्रस्य, इह पुनर्नन्द्याद्युपन्यासः किल विधिनियमख्यापनार्थः, नन्द्यादि ज्ञात्वैव भणित्वैव वा सूत्रस्यारम्भो भवति, नान्यथेति, तथा उपोद्घातः सकलप्रवचनसाधारणत्वेन प्रधानः, प्रधानस्य च सामान्यग्रहणेऽपि भेदोपन्यासो भवति, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इति अनुयोगद्वारग्रहणेन तस्य ग्रहणेऽपि पृथगुपन्यासः ॥ सम्बन्धान्तरप्रतिपादनायैवाह
For Private & Personal Use Only
सूत्रारंभ
कालः
॥ ५५५ ॥
www.jainelibrary.org