________________
fleeceTMOSASSISTAREX
६ दुपाध्यायाः सूत्रविद एव केचिदेतद्व्यतिरिकाः शिष्यकाः साधव एव, न अईदादय इति, तत्र एकपदव्यभिचारान्न तुल्या भिधानतेति, न च साधुनमस्कारकरणेऽहंदादिनमस्कारफलावाप्तिः, सामान्येन प्रवृत्तेः, तथा चात्र प्रयोगः-साधुमात्रनम-18 स्कारो विशिष्टाहदादिगुणनमस्कृतिफलप्रापणसमर्थों न भवति, तत्सामान्याभिधाननमस्कारवत्-मनुष्यत्वमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वा, उक्तंच-"जइवि जग्गहणातो होइ कहवि गहणमरिहयाईणं। तहवि ने तग्गुणपूया जइगुणसाम-16 नपूयातो ॥२॥” तस्मात् पञ्चविध एव खलुशब्दस्यावधारणार्थत्वात् नमस्कारो भवति, व्यक्त्यपेक्षया विस्तरेण कर्तुमशक्यत्वात् , तथा हेतुनिमित्तं भवति सिद्धः पञ्चविधो नमस्कारः, तत्र हेतुर्नमस्काराईत्वे य उक्तः 'मग्गे अविप्पणासो' इत्यादिकः तन्निमित्तं-तस्मादुपाधिभेदात् भवति पञ्चविधः सिद्धः॥गतं प्रसिद्धिद्वारम् , अधुना क्रमद्वारप्रतिपादनार्थमाहपुवाणुपुबिन कमो नेव य पच्छाणुपुबि एस भवे । सिद्धाईआ पढमा बीआए साहुणो आई ॥ १०२१॥ इह क्रमस्तावद् द्विविधः-पूर्वानुपूर्वी पश्चानुपूर्वीच, अनानुपूर्वी तुक्रम एव न भवति, असमञ्जसत्वात् , तत्रायमर्हदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धाद्यनमिधानात्, एकान्तकृतकृत्यत्वेनाहन्नमस्कार्यत्वेन च सिद्धा एव हि प्रधानं, प्रधानस्य चाभ्यहितत्वेन पूर्वमभिधानमिति भावार्थः, तथा नैव च पश्चानुपूर्वी एष क्रमो भवेत् , साध्वाधनभिधानात्, इह सर्वपाश्चात्याः अप्रधानत्वात् साधवः, ततश्च वानभिधाय यदि पर्यन्ते सिद्धाभिधानं स्यात् स्यात् तदा पश्चानुपूर्वीति, तथा चामुमेवार्थ प्रतिपादयति-सिद्धादिका प्रथमा पूर्वानुपूर्वी, भावना प्रतिपादितेव, द्वितीयायां तु-पश्चानुपूया साधव आदो, | युक्तिरत्रापि मागभिहितैव, अत्र प्रतिविधीयते-पूर्वानुपूर्येव एष कमः, तथा च पूर्वानुपूर्वीत्वमेव प्रतिपादयनाह
AAAAEHRS24NES
मा.सू. ९३
Jain Education Inter
For Private & Personal use only
Gww.jainelibrary.org