________________
उवज्झायनमोकारो, सबपावप्पणासणो। मंगलाणं च सवेसि, चउत्यं इवह मंगलं ॥१००७॥ गाथाचतुष्टयमपि सामान्येनाहन्नमस्कारवदवसेयम्, विशेषस्तु सुगम एव, इत्युक्त उपाध्यायनमस्काराधिकारः। अथ साधुरिति कः शब्दार्थः१, उच्यते-अभिलषितमयं साधयतीति साधुः, “कृवापाजी' त्यादिना उणप्रत्ययः, सच नामादिभेदाच्चतुष्प्रकारः, तथा चाह
नामंठवणासाह दवसाह य भावसाह य । दमि लोइयादी भावंमि य संजतो साह ॥१००८॥ . नामसाधुः स्थापनासाधुः द्रव्यसाधुर्भावसाधुश्च, तत्र नामस्थापनासाधू सुगमौ, द्रव्यसाधुर्शशरीरभव्यशरीरव्यतिरिक्तः लौकिकादिस्त्रिविधः, तद्यथा-लौकिको लोकोत्तरः कुपावचनिकश्च, तत्र यो लोके शिष्टसमाचारः घटपटादिसाधको वा स ६ लौकिकः, कुप्रवचनेषु निजनिजसमाचारसम्यक्परिपालनरतः कुमावचनिकश्च, तत्र यो लोके शिष्टसमाचारः घटपटादिसाधको
वा स लौकिका, कुप्रवचनेषु निजनिजसमाचारसम्यकपरिपालनरतः कुमावचनिकः, लोकोत्तरे निहवः, अन्यथा पदार्थप्ररूपरणतस्तस्य मिथ्यादृष्टित्वात् , शिथिलवतो वा वेषमात्रधारणात् , भावे विचार्यमाणे साधुः संयतः-सम्यग् जिनाज्ञापुरस्सरं ५ सकलसावधव्यापारादुपरतः॥ सम्प्रति लौकिकादिद्रव्यसाधुप्रतिपादनार्थमाह
घडपडरहमाईणि साडेता होंति दबसाह य । अहवावि दबभूया ते होंती दवसाहुत्ति ॥१००९॥ घटपटरथादीनि, आदिशब्दात् गृहदेवकुलादीनां कुपवचने निजनिजसमाचाराणां च परिग्रहः, तान् साधयन्तो भवंति द्रव्यसाधवः, अभिलषितमर्थ साधयन्तीति साधवः इत्यन्वर्थघटनात्, मोक्षाङ्गताविरहतश्च द्रव्यरूपत्वात् , तत्र घटपटादि
Jain Education Intema
For Private & Personal use only
G
ainelibrary.org