SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सौख्य श्रीआवश्यकमलयगिरीयवृत्ती नम स्कारे CHARACROSPERORRCASEARCH बारसंगो जिणक्खातो अन्झातो देसितो (कहितो हा०) वुहेहिं । तं उवासंति जम्हा उवझाया तेण वुचंति १००१ | द्वादशाङ्गः-आचारादिः, द्वादशाङ्गसद्भावात्, जिनाख्यातः-अहत्प्रणीतः अध्यायो, वाचनादिनिवन्धनत्वादिह सूत्र- मेव गृह्यते, कथितो बुधैः-गणधरादिभिः, य इति गम्यते, तं स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात्कारणात्ते नो यन्ते उपाध्यायाः, उपेत्याधीयते यस्मादित्यन्वर्थोपपत्तेः॥ साम्प्रतमागमशैल्या अक्षरार्थमधिकृत्योपाध्यायशब्दार्थमाह| उत्ति उवयोगकरणे झत्ति य झाणस्स होइ निद्देसे। एएण होइ उज्झा एसो अन्नोऽवि पजातो॥१००२॥ उ इत्येतदक्षरं उपयोगकरणे वर्चते, झ इति चेदं ध्यानस्य निर्देशे भवति, ततः प्राकृतशैल्या एतेन कारणेन भवंति उज्झा, उपयोगपुरस्सरं ध्यानकार इत्यर्थः, एषोऽन्योऽपि पर्यायः ॥ अथवा उत्ति उवयोगकरणे वत्ति य पावपरिवजणे होइ। झत्ति य झाणस्स कए उत्ति य ओसक्कणा कम्मे ॥१००३॥ | उ इत्येतदक्षरं उपयोगकरणे वर्चते, व इति पापस्य परिवर्जने भवति, झ इति ध्यानस्य कृते-करणे निर्दिश्यते, उ इति अवष्वष्कणा कर्मणीत्येतस्मिन्नर्थे, एषोऽत्र समुदायार्थः-उपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्मापनयन्तीत्युपाध्याया इति । अक्षरार्थाभावे हि पदार्थाभावः, पदस्य तत्समुदायरूपत्वादित्यक्षरार्थः प्रतिपत्तव्य इति ॥ उवज्झायनमोकारो जीवं मोएइ भवसहस्सातो। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥१००४॥ उवज्झायनमोकारो पन्नाण भवक्खयं करंताणं । हिययं अणुम्मुयंतो विसोत्तियावारओ होइ ॥१००५॥ उवज्झायनमोकारो एवं खलु वनिओ महत्थोत्ति । जो मरणमि उवग्गे अभिक्खणं कीरए बहुसो ॥१००६॥ GARCANE ॥५५॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy