________________
Jain Education International
भावाचार्या उच्यन्ते, एतच्चाचरणादि अनुयोगेऽपि सम्भवति यतस्तत आह-भावाचारोपयुक्ताश्च भावार्थमाचारो भावाचारस्तदुपयुक्ताश्च ॥
आयरियन मोक्कारो जीवं मोएइ भवसहस्सातो । भावेण कीरमाणो होइ पुणो बोहिलाभाय ॥ ९९६ ॥ आयरियन मोक्कारो घन्नाण भवक्खयं करेंताण । हिययं अणुम्मुयंतो, विसोत्तियावारतो होइ ॥ ९९७ ॥ आयरियन मोक्कारो एवं खलु वन्नितो महत्थोति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो ॥ ९९८ ॥ आयरियनमोक्कारो, सङ्घपावप्पणासणो । मंगलाणं च सबेसिं, तइयं हवइ मंगलं ॥ ९९९ ॥ गाथाचतुष्टयमपि अर्हनमस्कारवदवसेयम्, विशेषस्तु सुगम एवेति । उक्त आचार्यनमस्काराधिकारः, साम्प्रतमुपाध्यायनमस्कारावसरः, उपाध्याय इति कः शब्दार्थः १, उच्यते, 'इङ् अध्ययने' उपपूर्वः, उपेत्य-समीपमागत्य अधीयते साधवः सूत्रमस्मादित्युपाध्यायः, स च नामादिभेदाच्चतुष्प्रकारः, तथा चाह
नामंठवणादविए भावंमि चउव्विहो उवज्झातो । दव्वे लोइयसिप्पाइ निण्हगा वा इमे भावे ॥ १००० ॥ नामोपाध्यायः स्थापनोपाध्यायो द्रव्योपाध्यायो भावोपाध्यायश्चेत्येवं चतुर्विध उपाध्यायः, तत्र नामस्थापनोपाध्यायौ सुगमौ द्रव्योपाध्यायो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्विधा- लौकिको लोकोत्तरश्च तत्र लौकिकः शिल्पादिः, तच्चैवमुच्यते तत्परिज्ञानात् तदभदोपचारेण, अन्यथा शिल्पादिशास्त्राध्यापका गृह्यन्ते, लोकोत्तरा निह्नवाः, ते हि अभिनिवेशदोषेणैक| मपि पदार्थमन्यथा प्ररूपर्यंतो मिथ्यादृष्टय एवेति द्रव्योपाध्यायाः, इमे वक्ष्यमाणस्वरूपाः पुनर्भावोपाध्यायाः ॥ तानेवाह
For Private & Personal Use Only
www.jainelibrary.org