________________
श्रीआव
श्यकमलयगिरीय
वृत्तौ नमस्कारे
॥ ५४९ ॥
व आचार्यः स एकभविकः, आचार्यभवयोग्यनिबद्धायुर्बद्धायुष्कः, आचार्यभवानुगते यस्य नामगोत्रे उदयाभिमुखे सीऽभिमुखनामगोत्रः, तथाविधो द्रव्याचार्यः मूलगुणनिर्मित उत्तरगुणनिर्मितश्च तत्र मूलगुणनिर्मित आचार्यशरीरनिर्वर्त्तनयोग्यानि द्रव्याणि उत्तरगुणनिर्मितस्तु तान्येव तदाकारपरिणतानीति, अथवा द्रव्यभूतोऽप्रधान आचार्यो द्रव्याचार्यः, द्रव्यनिमित्तं वा य आचारवान् स द्रव्याचार्यः, भावाचार्यो द्विधा - लौकिको लोकोत्तरश्च, तत्र लौकिकः शिल्पशास्त्रादिः, एत| चैवमुच्यते तत्परिज्ञानात् तदभेदोपचारेण, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये तु लौकिकलोकोत्तरभेदमकृत्वा सामान्यत एनमपि द्रव्याचार्य व्याचक्षते, यथा-शिल्पशास्त्रादिपरिज्ञाता, यथा शिल्पशास्त्रादिपरिज्ञाननिमित्तमाचार्यमाणो द्रव्याचार्य इति ॥ अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयति
Jain Education International
पंचविहं आयारं आयरमाणा तहा पगासंता । आयारं दंसंता आयरिया तेण वञ्चति ॥ ९९४ ॥ पश्चविधं - पञ्चप्रकारं ज्ञानदर्शनचारित्रतपोवीर्यभेदात्, आचारं- आर मर्यादायां चरणं चारः मर्यादया - कालनियमादिलक्षणया चार आचारः, उक्तं च - "काले विणए बहुमाणे उवहाणे" त्यादि, आचरन्तः सन्तोऽनुष्ठानरूपेण, तथा प्रभापमाणा अर्थान्वाख्यानेन, तथा प्रत्युपेक्षणादिक्रियाद्वारेणाचारं दर्शयतः सन्तो मुमुक्षुभिराचर्यन्ते - सेव्यन्ते येन कारणेन आचार्यास्तेन कारणेनोच्यन्ते ॥ अमुमेवार्थ स्पष्टयन्नाह -
आयारो नाणाई तस्सायरणां पभासणातो वा । जे ते भावायरिया भावायारोवउत्ता य ॥ ९९५ ॥ आचारो-ज्ञानादिः पञ्चप्रकारः तस्याचरणात् प्रभाषणात् वाशब्दाद् दर्शनाद्वा हेतोर्मुमुक्षुभिराचर्यन्ते सेव्यन्ते ते
For Private & Personal Use Only
सिद्धसौर्य
॥ ५४९ ॥
www.jainelibrary.org