SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीभवश्यकमलयगिरीयवृत्तौ नम स्कारे ।। ५४८ ॥ Jain Education Internati नरः । सर्वेन्द्रियार्थ संप्राप्त्या, सर्वाबाधानिवृत्तिजम् ॥ ६ ॥ यद्वेदयति संहृद्यं, प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततोऽनंतं, सुखमाहुर्मनीषिणः ॥ ७ ॥ इति ॥ इय सबकालतित्ता अडलं निवाणमुवगया सिद्धा । सासयमवाबाहं चिठ्ठति सुही सुहं पत्ता ॥ ९८६ ॥ इति - एवमुक्तेन प्रकारेण सर्वकालतृप्ताः, स्वस्वभावावस्थितत्वात्, अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यनिवृत्तेः, यतश्चैवमतः शाश्वतं सर्वकालभावि, अव्याबाधं-व्यावाधपरिवर्जितं सुखं प्राप्ताः सुखिनस्तिष्ठन्ति । अथ सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकं, नैष दोषः, अस्य दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव सुखप्रतिपादनार्थत्वात्, तथा हि अशेषदोषक्षयतः शाश्वतमन्याबावं सुखं प्राप्ताः सन्तः सुखिनस्तिष्ठन्ति, न तु दुःखाभावमात्रान्विता एवेति ॥ सांप्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयति सिद्धत्ति अबुद्धत्तिय पारगयत्ति य परंपरगयत्ति य । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥ ९८७ ॥ सिद्धा इति कृतकृत्यत्वात्, बुद्धा इति केवलज्ञानदर्शनाम्यां विश्वावगमात्, पारगता इति भार्गवपारगमनात्, परंपरागता इति पुण्यबीजसम्यक्त्वज्ञानचरणक्रमतत्प्रतिपत्त्युपाय मुक्तत्वात् परम्परया गताः परम्परागताः उन्मुक्तकर्म| कवचाः सकलकर्म्मवियुक्तत्वात्, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलक्लेशाभावात् ॥ साम्प्रतमुपसंहरति निच्छिन्नसव्वदुक्खा जाइज़रामरणवंगणविमुक्का | अव्वाबाई सोक्वं अणुहवयंती सया कालं ॥ ९८८ ॥ For Private & Personal Use Only सिद्ध सौख्यं ॥ ५४८ ॥ jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy