SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ इय सिद्धाणं सोक्खं अणोवमं नत्थि तस्स ओवम्मं । किंचिविसेसेणेचो सारिक्वमिणं सुणह वोच्छं ॥ ९८४ ॥ इति - एवमुकेन प्रकारेण सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह-यतो नास्ति तस्य औपम्यं -उपमीयमानता, उपमानासंभवात्, तथापि चात्मनः प्रतिपत्तये किंचिद्विशेषेण 'एतो' त्ति आर्षत्वाद् अस्याः सादृश्यमिदं वक्ष्यमाणलक्षणं शृणुताहं वक्ष्ये इति ॥ प्रतिज्ञातमेव निर्वाहयति जह सबकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुको अच्छेज जहा अमियतत्तो ॥ ९८५ ॥ यथेत्युदाहरणोपन्यासार्थः, सर्वकामगुणितं - सकलसौन्दर्यसंस्कृतं, भोजनं भुज्यते इति भोजनं 'कृद्बहुल' मिति वचनात् कर्म्मण्यनट्, कश्चित् पुरुषो भुक्त्वा तृक्षुद्विमुक्तः सन् यथा आसीनः अमृततृप्तः, आबाधारहितत्वात् । इह रसनेन्द्रियमधिकृत्येष्टविषयप्रात्या औत्सुक्यविनिवृत्तेः सुखप्रदर्शनं सकलेन्द्रियार्थावात्या शेषौत्सुक्यनिवृत्त्युपलक्षणार्थः, अन्यथा बाधांतरसंभवतः सुखाभावः स्यात्, सर्ववाधाविगमेन चात्र प्रयोजनम्, उक्तं च- "वेणुवीणामृदङ्गादिनाद| युक्तेन हारिणा । श्लाध्यस्मरकथावद्धगीतेन स्तिमितः सदा ॥ १ ॥ कुट्टिमादिविचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्ददायीनि, लीलावन्ति स्वकानि हि ॥ २ ॥ अम्बरागुरुकर्पूरधूपगन्धानितस्ततः । पटवासादिगन्धांश्च, व्यक्तमाघ्राय निःस्पृहः ॥ ३ ॥ नानारससमायुक्तं, भुक्त्वाऽन्नमिह मात्रया । पीत्वोदकं च तृष्ठात्मा, स्वादयन् स्वादिमं शुभम् ॥ ४ ॥ मृदुतूलीसमाक्रान्तदिव्यपर्यकसंस्थितः । सहसाऽम्भोदसंशब्दश्रुतेर्भयघनं भृशम् ॥ ५ ॥ इष्टभार्यापरिष्वचतद्रततेऽथवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy