________________
श्रीआव
-श्यकमल
यगिरीय
वृत्तो नमस्कारे
1148011
Jain Education inte
तमिति, एवंप्रमाणस्य सतः पुनर्वग्गों विधीयते, तस्यापि वर्गितस्य भूयो वर्गः, एकः नन्तैर्वर्गगमैर्वर्गितं तथापि तयाप्रकर्षगतमपि मुक्तिसुखं - सिद्धिसुखं न प्राप्नोति ॥ तथा चैतदभिहितार्थानुवाद्याह
सिद्धस्स सुहो रासी सङ्घद्वापिंडितो जड़ हवेज्जा। सोऽणंतवग्गभइतो सवागासे न माइया ॥ ९८२ ॥ सिद्धसम्बन्धी सुखानां राशि:, सुखसंघात इत्यर्थः, सर्वाद्धापिण्डितः - सर्वकालसमयगुणितः सबागासे न माइज्जत्तीत्यादि, अन्यथा नियतदेशावस्थितिस्तेषां कथमिति सूरयोऽभिदधतीति ॥ तथा चैतत्संवाद्यार्षवेदेऽप्युक्तमित्यलं व्यासेनेति ॥ सांप्रतमेवंरूपस्यापि सतोऽप्यस्य निरुपमतां प्रतिपादयति
जह नाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं उवमाइ तहिं असंतीए ॥ ९८३ ॥ यथा नाम कश्चित् म्लेच्छो नगरगुणान् सद्गृहनिवासादीन् बहुविधान्- अनेकप्रकारान् विजानन् अरण्यगतः सन् अन्यम्ले - च्छेभ्यो न शक्नोति परिकथयितुम्, कुतो निमित्तादित्यत आह-उपमायां तत्रासत्यां तद्विषये उपमाया अभावादिति भावः । एष गाथाक्षरार्थः, भावार्थः कथानकादवसेयः तच्चेदम् - एगो महारण्णवासी मिच्छो रण्णे चिठ्ठइ, इतो य- एगो राया आसेण अवहरितो तं अडविं पवेसितो, तेण दिट्ठो, सकारेऊण जणवयं नीतो, रण्णावि सो नगरमाणितो, पच्छा उवगारित्तिगाढमुवचरितो, जहा राया तहा चिट्ठइ, धवलघराइभोगेणं विभासा, काले रणं सरिउमादत्तो, रण्णा विसज्जितो, ततो रण्णिगा पुच्छंति - केरिसं नगरंति ?, सो वियाणंतोवि तत्थोवमाभावा न सकइ नगरगुणे परिकहेउं । एष दृष्टान्तः, अयमर्थोपनयः
For Private & Personal Use Only
सिद्ध
सौवं
11480,11
w.jainelibrary.org