SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमल- यगिरीयवृत्तौ नमस्कारे ॥५४६॥ शात्मकैकसिद्धावगाहक्षेत्रे प्रतिप्रदेशपरिवृद्धिहानिभ्यां प्रतिप्रदेशमनन्तानां सिद्धानामवगाहनात् ॥ स्थापना चेयम् । उक्त 18| सिद्धानां च-“एकक्खेत्तेऽणंता पएसपरिवड्डिहाणिए तत्तो । होति असंखेजगुणाऽसंखपएसो जमवगाहो ॥१॥" सांप्रतं सि- स्थानं द्धानेव लक्षणतः प्रतिपादयति असरीरा जीवघणा उवउत्ता सणे य णाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥९७७॥ . अविद्यमानशरीराः अशरीराः, औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च शुषिरापूरणात् जीवधनाः, उपयुक्ता दर्शने च-केवलदर्शने ज्ञाने च-केवलज्ञाने । इह सामान्यसिद्धलक्षणमेतदितिज्ञापनार्थ सामान्यालंबनदर्शनाभिधानमादावुक्तम् , तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानं, तत् साकारानाकारं-सामान्यविशेषरूपं लक्षणं-तदन्यब्यावृत्तं स्वस्वरूपम् एतद्-अनन्तरोक्तम् , तुशब्दो निरुपमसुखसंचयार्थः, सिद्धानां-निष्ठितार्थानामिति ॥ संप्रति केवल-1 ज्ञानदर्शनयोरशेषविषयतामुपदर्शयति। केवलनाणुवउत्ता जाणंती सबभावगुणभावे । पासंति सबतो खलु केवलदिट्ठीहिं णंताहिं ॥ ९७८ ॥ केवलज्ञानेनोपयुक्ताः, न त्वन्तःकरणेन, तदभावात् , केवलज्ञानोपयुक्ताः जानन्ति-अवगच्छन्ति-सर्वभावगुणभावान् सर्वपदार्थगुणपर्यायान, प्रथमो भावशब्दः पदार्थवचनः, द्वितीयः पर्यायवचनः, गुणपर्यायभेदस्त्वयं सहवर्तिनो गुणाः, ॥५४६॥ है क्रमवर्तिनः पर्यायाः, तथा पश्यन्ति सर्वतः खलु, खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलदृष्टिभिरनन्ताभिः केवलदर्शनैरनन्तः, अनन्तत्वात् सिद्धानाम्, इहादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थम् । CAMTCRACACANCCN Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy