SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 5205 SARKARcoERASA ताएत्तोच्चिय पडिसेहो सिद्धाइगुणेसु दीहयाईणं । जमणित्यंत्यं पुवागारावेक्खाए नाभावो ॥२॥" आह-किमेते सिद्धा देशभेदेन स्थिता उत नेति, उच्यते, नेति ब्रूमः, कुत इति चेत्, उच्यते, यस्मात् । जत्थ य एगो सिद्धो तत्थ अणंता भवक्स्वयविमुक्का । अन्नोन्नसमोगाढा पुट्ठा सधे य लोगते ॥ ९७५ ॥ ___ यत्रैव चशब्दस्यैवकारार्थत्वाद् देशे एकः सिद्धो-निर्वृतः तत्रानंता भवक्षयविमुक्ताः-भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन खेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामवत्त्वात् धम्मास्तिकाBा यादिवत् , 'पुट्ठा सबै य लोगंते' इति स्पृष्टा-लग्नाः सर्वे लोकान्ते, पाठान्तरं वा 'पुट्ठो सबेहिं लोगतो' स्पृष्टः सर्वैर्लोकान्तः हैं।'लोकाग्रे च प्रतिष्ठिता' इति वचनात् । तथा फुसइ अणंते सिद्धे सचपएसेहिं सबतो सिद्धो। तेऽवि असंखेजगुणा देसपएसेहिं जे पुट्ठा ॥९७६ ॥ ४ा स्पृशत्यनन्तान सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिः 'नियमसोत्ति नियमतो-नियमेन सिद्धः, तथा तेऽप्यसंख्येयगुणा हैवर्तन्ते ये देशप्रदेशः स्पृष्टाः, ते केभ्योऽसंख्येयगुणा इति चेत्, उच्यते, सर्वप्रदेशस्पृष्टेभ्यः, कथमिति चेत् , उच्यते, इह एकस्य सिद्धस्य यदवगाहनाक्षेत्र तत्रैकस्मिन्नपि परिपूर्णे क्षेत्रे अवगाढास्तेऽनंताः, ये च मूलक्षेत्रादेकप्रदेशवृद्ध्याऽवगाद्र दास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुष्पश्चादिप्रदेशवृद्ध्या ये अवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूलक्षेत्रस्य एकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुष्पञ्चप्रदेशादिहान्या ये अवगाढास्तेऽपि प्रत्येकमकानन्ताः, एवं च सति प्रदेशपरिवृद्धिहानिभ्यां ये समवगाढास्ते. परिपूर्णक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, असंख्येयप्रदे SHRIR55*6*** Jain Educato International For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy