________________
Jain Education Interna
यश्च 'कुलगरेहिं सम' मित्यतिदेशः सोऽपि कियता न्यूनाधिक्येऽपि अतिदेशानामागमे दर्शनादबाधकः, अथवा भगवती हस्तिस्कन्धाधिरूढा सती सिद्धा, हस्तिस्कन्धाधिरूढा च सङ्कुचिताङ्गीति यथोक्तावगाहनाया अविरोधः, उक्तं च- "किह मरुदेवीमाणं ! नामीतो जेणं किंचिदूणा सा । सा किर पंचसयच्चिय अहवा संकोयतो सिद्धा ॥ १ ॥" अधुना मध्यमावगाहनामानमाह
चत्तारि अ रयणीओ रयणि तिभागूणिआ अ बोद्धवा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥ ९७२ ॥ चत्वारो रत्नयो- हस्ताः रक्षित्रिभागोना - हस्तत्रिभागोना बोद्धव्याः, एषा - एतावत्प्रमाणा खलु सिद्धानामवगाहना भणिता, ननु जघन्याजघन्यत्वनिषेधपरं सूत्रमिदं, नत्वेतावदेव मध्यमावमाहनामानं, हस्तद्वयादूर्ध्वं पञ्चधनुः शतेभ्योऽर्वाक् सर्वत्रापि मध्यमावगाहनाभावात् ॥ सम्प्रति जघन्यावगाहनाप्रतिपादनार्थमाह
एगा य होइ रयणी अट्ठेब य अंगुलाई साहीआ । एसा खलु सिद्धाणं जहन्नओगाहणा भणिआ || ९७३ ॥
एका रतिः अष्टावेव चाङ्गुलानि साधिका, अष्टभिरङ्गुलैरधिका इत्यर्थः, एषा - एतावत्प्रमाणा खलु सिद्धानां जघन्यावगाहना भणिता, एषा च द्विहस्तप्रमाणानां कूर्म्मापुत्रादीनामवसातव्या, अन्ये ब्रुवते - सप्तहस्तानामेव यन्त्रपीलनादिना संव तितगात्राणां सतां सिद्धानामवगन्तव्या ॥ ननु आगमे सिद्धिर्जघन्यपदे सप्तहस्तोच्छ्रितानामभिहिता, ततः कथं उच्यतेद्विहस्तप्रमाणानां कूम्र्मापुत्रादीनां १, उच्यते, सा जघन्यपदे सिद्धिस्तीर्थकरानधिकृत्योत्ता, शेषाणां तु केवलिनां सिद्धिर्द्धिहस्तप्रमाणानामप्यविरुद्धेत्यदोषः, उक्तं च- "सत्तुस्सिए सिद्धी जहन्नतो किहमिहं बिहत्थेसु ? । सा किर तित्थय रेसुं सेसाणमियं तु
For Private & Personal Use Only
www.jainelibrary.org