SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमल यगिरीय वृत्तौ नमस्कारे ॥ ५४२ ॥ Jain Education Interna अलोए पडिहया सिद्धा, लोअग्गे अ पट्टिआ । इहं बुंदिं चइत्ताणं, तत्थ गंतॄण सिज्झति ॥ ९५९ ॥ अलोके- केवलाकाशास्तिकाये प्रतिहताः - प्रतिस्खलिताः सिद्धाः, इह प्रतिस्खलनं तत्र धर्म्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव द्रष्टव्यम् नतु सम्बन्धे सति भित्तौ लोष्टस्येव विघातः, अमूर्त्तत्वात्, तथा लोकाग्रे च-पंचास्तिकायात्मकलोकमूर्ध्नि च प्रतिष्ठिताः, अपुनरागमवृत्त्या व्यवस्थिता इत्यर्थः, तथा इह - अर्द्धतृतीयद्वीपसमुद्रमध्ये बोन्दि-तनुं मुक्त्वा - परित्यज्य सर्वथा, किं ?, तत्र - लोकाग्रे गत्वा - समय प्रदेशान्तरमस्पृशन् गत्वा 'सिद्धयन्ति' निष्ठितार्था भवन्ति सिद्ध्यन्ति चेति गाथार्थः ॥ इह 'लोकाग्रे च प्रतिष्ठिता' इत्युक्तं, तत्र शिष्यः प्राह-क पुनरसौ लोकान्त इत्यत आह सभाए सीआए जोअणम्मि लोगंतो । बारसहिं जोयणेहिं सिद्धी सवत्थसिद्धाओ ॥ ९६० ॥ ईपत्प्राग्भारा- सिद्धभूमिस्तस्याः सीता इति द्वितीयं नाम, तस्या ऊर्ध्वं योजनेऽतिक्रान्ते लोकान्तः, सापि च ईपत्प्राग्भाराख्या सिद्धिः सर्वार्थसिद्धाद् वरविमानादूर्ध्वं द्वादशभिर्योजनैर्भवति, अन्ये तु व्याचक्षते - सर्वार्थसिद्धाद् विमानबरात् द्वादशभिर्योजनैर्लोकान्तक्षेत्र लक्षणेति, तत्त्वं पुनः केवलिनो विदन्ति, तस्मिन् लोकान्ते ईषत्प्राग्भारोपलक्षिते मनुष्य क्षेत्रपरिमाणे सिद्धाः प्रतिष्ठिताः, उक्तं च- "अत्थी सीप भारोवलक्खियं मणुयलोगपरिमाणं । लोगग्गनभोभागो सिद्धक्खेत्तं जिणक्खायं ॥ १ ॥” साम्प्रतमस्याः प्राग्भारायाः स्वरूपव्यावर्णनायाहनिम्मलदगरयवन्ना तुसार- गोखीर- हारसरिवन्ना । उत्ताणयछत्तयसंठिआ अ भणिआ जिणवरेहिं ॥ ९३९ ॥ दकरजः - उदककणिका निर्म्मलंच तत् दकरजश्च निर्मलदकरजस्तस्येव वर्णो यस्याः सा निर्मलदकर जोवर्णा, तुषारो For Private & Personal Use Only सिद्धानां स्थानं ॥ ५४२ ॥ www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy