________________
दुयं जाइ । तह कम्मबंधणच्छेयणेरितो जाइ सिद्धोऽवि ॥ १ ॥” तथा कर्म्मविमुक्तो जीवः सकृदूर्ध्वमेवालोकात् गच्छति, तथा स्वाभाविकपरिमाणत्वात अग्निधूमवत्, उकं च - "उद्धंगइपरिणामो जह जलणस्सा जहेव धूमस्स । उद्धंगतिपरिणामो सभावतो तह विमुक्कस्स ॥ १ ॥” तथा कर्म्मविमुक्तो जीवः सकृदूर्ध्वमेवालोकाद् गच्छति, पूर्वप्रयुक्ततक्रियातथाविधसामर्थ्यात् धनुःप्रयत्नप्रेरितेषुवत्, यथा धनुषा पुरुषप्रयत्लेन प्रयत्नप्रेरितस्येषोर्गतिकारणविगमेऽपि पूर्वप्रयोगात् गतिः प्रवर्त्तते एवं कर्म्मविमुक्तस्यापि जीवस्येति भावः, आह च - "जह धणुपुरिसपयत्तेरितेसुणो भिन्नदेसगमणं तु गइकारणविगमं मिवि सिद्धं पुप्पयोगातो ॥ १ ॥ बंधच्छेयणकिरियाविरमेवि तहा विमुञ्च्चमाणस्स । तस्साऽऽलोगंतातो गमणं पुष्पओगातो ॥ २ ॥” उपलक्षणमेतत्, तेन यथा कुलालचक्रं क्रियाहेतुविगमेऽपि पूर्वप्रयोगतः सक्रियं तथा जीव| स्यापि कर्म्मणा मुच्यमानस्य पूर्वप्रयोगतो गतिरित्यपि निदर्शनं द्रष्टव्यम्, उक्तं च- "जह वा कुलालचकं किरियाहेतुविर - | मेऽवि सक्तिरियं । पुबप्पओगतोच्चिय तह किरिया मुच्चमाणस्स ॥ १ ॥” एवं प्रतिपादिते सत्याह
कहिं पहिया सिद्धा ?, कहिं सिद्धा पइट्टिआ ? । कहिं बुंदिं चइत्ताणं ?, कत्थ गंतूण सिज्झति ? ॥ ९५८ ॥ क्व प्रतिहताः-क्व प्रतिस्खलिताः सिद्धा - मुक्ताः, तथा क्व सिद्धाः तथा प्रतिष्ठिता - व्यवस्थिताः, वोंदिः - तनुः शरीरमित्यनर्थान्तरं व बोंदिं त्यक्त्वा परित्यज्य क्व गत्वा सिद्ध्यन्ति निष्ठितार्था भवन्ति ?, अत्रानुस्वारलोपो द्रष्टव्यः, अथवा एकवचनतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध एव, यतोऽन्यत्रापि प्रयोगः- “वत्थगंधमलंकारं इत्थीतो सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्च ॥ १ ॥” इति इत्थं चोदकेनो के सति प्रतिसमाधानमाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org