________________
श्रीआवश्यकमलयगिरीय
वृत्तौ नमस्कारे
॥ ५४१ ॥
Jain Education Inter
यदुक्तं 'शैलेशीं प्रतिपद्यते सिद्ध्यति चे 'ति तत्रासावेकसमयेन लोकान्ते सिद्ध्यतीत्यागमः, तत्र कर्म्ममुक्तस्य तद्देशनियमेन गतिः कथमुपपद्यते इति मा भूदव्युत्पन्नविनेयानामाशङ्केति तन्निरासार्थमाह
लाउअ एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गइपुचपओगेणं एवं सिद्धाणवि गईओ (उ) ।। ९५७ ॥ अलाबु-तुम्बं एरण्डफलमग्निर्धूम इति प्रतीताः, इषुः-शरो धनुर्विमुक्तः - चापप्रेरितः, अमीषां यथा तथारूपगमनकाले स्वभावतस्तन्निबन्धनाभावेऽपि देशादिनियतैव पूर्वप्रयोगेण प्रवर्त्तते, एवमेव, व्यवहिततुशब्दस्य एवकारार्थत्वात्, सिद्धा| नामपि गतिः प्रवर्त्तते इत्यक्षरार्थः, भावार्थः प्रयोगैर्निर्द्दिश्यते तत्र कर्म्मविमुक्तो जीवः सकृदूर्ध्वमेवालोकान्ताद् गच्छति, असङ्गत्वेनोत्पन्नतथाविधपरिणामत्वाद् अष्टमृत्तिकालेपलिष्ठाधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुवत्, इयमत्र भावना-यथा तुम्बकस्य दर्भान्तरितशुष्काष्टमृल्लेपलिप्तस्य नद्यादिजले निक्षिप्तस्य मृल्लेपासङ्गापगमात् स्वभावत एवोर्ध्वं गतिः प्रवर्त्तते, न तिर्यग् नापि जलोपरितलादपि परतः, तथा तस्यापि सिद्धस्य कर्म्मसङ्गाभावादूर्ध्वमेव गतिः प्रवर्त्तते, नान्यप्रकारेण, नापि लोकोपरितनभागादपि परतः, उक्तं च- "जह मिल्लेवावगमादलावुणोऽवस्तमेव गतिभावो । उद्धं च नियमतो नऽन्नहा नवा जलाउ उद्धं च ॥ १ ॥ तह कम्मलेपविगमे गइभावोऽवस्समेव सिद्धस्स । उद्धं च नियमतो नन्नहा नवा लोगपरतो उ ॥ २ ॥” तथा कर्म्मविमुक्तो जीवः सकृदूर्ध्वमेवालोकाद् गच्छति, छिन्नबन्धनत्वेन तथाविधपरिणामत्वात्, तथारूपैरण्डफलवत्, किमुक्तं भवति ?, यथा एरण्डफलस्य बन्धनच्छेदनातपशुष्ककोशविगमेन | तथाविधस्वभावभावादूर्ध्वमेव गतिः, एवं विगतकर्म्मनिबन्धनस्य जीवस्यापि, आह च - "एरंडस्स फलं जह बंधच्छेएरियं
For Private & Personal Use Only
कर्ममुकोर्ध्वगमनं
॥ ५४१ ॥
www.jainelibrary.org