SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ LAUNLOCALCUPROGRECR मप्यवगाहमानो विवक्षितसमयाच्चान्यत् समयान्तरमस्पृशन् गच्छति, उक्तं च चूर्णी-"जत्तियाए जीवेऽवगाढो तावइयाए ओगाहणाए उहूं उजुगं गच्छइ, नवकं बिइयं च समयं न फुसई"त्ति, भाष्यकारोऽप्याह-"रिउसेटिं पडिवण्णो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो॥१॥" तदानीं च साकारोपयोगोपयुक्तता 'सबातो लद्धीतो सागारोवयोगोवउत्तस्स, नो अणागारोवयोगोवउत्तस्से' ति वचनात् , उक्कं च-"सबातो लद्धीतो जं सागारोवयोगलाभातो। तेणेह सिद्धिलद्धी उप्पजइ तदुवउत्तस्स ॥१॥” तत्र च गतः स भगवान् शाश्वतं कालमवतिष्ठते, तथा चाह'सिज्झणा चे ति गाथार्थः ॥ साम्प्रतमनन्तरगाथायां यदुपन्यस्तं 'गत्त्वा समुद्घातं क्षपयन्ति कर्म निरवशेष'मिति, तत्र परः प्रश्नयति-समुद्घातगतानां विशिष्टः कर्मक्षयो भवतीति किमत्र निबन्धनं १, उच्यते-प्रयत्नविशेषः, किमत्र निदर्शनमित्यत आह जह उल्ला साडीया आसुं सुका विरल्लिया संती। तह कम्मलहुअसमए वचंति जिणा समुग्घायं ॥ ९५६॥ । _ 'यथे'त्युदाहरणोपन्यासार्थः, आर्द्रा साटिका, जलेनेति गम्यते, आशु-शीघ्रं शुष्यति-शोषमुपयाति, विरल्लिता-विस्तारिता सती, तथा तेऽपि भगवन्तो जिनाः प्रयत्नविशेषात् कर्मोदयमधिकृत्याशु शुष्यन्तीति शेषः, यतश्चैवमतः कर्मलघुता समये कर्मणः-आयुष्कस्य लघुता-लघो वो लघुता, स्तोकतेत्यर्थः, तस्याः समयः-कालः कर्मलघुतासमयः, स चान्तमुं४ हरीप्रमाणः तस्मिन् , अथवा कर्मभिर्लघुता कर्मलघुता, जीवस्येति सामर्थ्यादवसीयते, सा च समुद्घातानन्तरभाविन्येव 8 हे भूवोपचारं कृत्वा अनागतैव गृह्यते, तस्याः समयस्तस्मिन् , जिना ब्रजन्ति समुद्घातं-प्राक् प्रतिपादितस्वरूपमिति ॥ साम्प्रतं आ. सू.९१ Jain Education Internet For Private & Personal use only P oojainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy