________________
Jain Education International
नियमो येन तदेव बहुस्थितिकमायुषः सकाशात् भवति १, न च जातुचिदपि आयुरिति, उच्यते, तथारूपजीवपरिणामस्वाभाव्यात् तथाहि - इत्थंभूत एवात्मनः परिणामो येनास्यायुर्वेदनीयादिसमं भवति न्यूनं वा, न कदाचनाप्यधिकं, यथा तस्यैवायुषः खल्वध्रुववन्धः, तथाहि ज्ञानावरणादीनि कर्माण्यायुर्वर्जानि सप्तापि सर्वदैव बनाति, आयुस्तु प्रतिनियत एव काले स्वभवत्रिभागादिशेषरूपे, तत्रैव वन्धवैचित्र्यनियमे न स्वभावाद् यतः परः कश्चिदस्ति हेतुः, एवमिहापि स्वभावविशेष एव नियामको द्रष्टव्यः, आह च भाष्यकृत् - "असमट्टितीण नियमो को थेवं आउयं न सेसंपि ? । परिणामसहावातो अन्दुयबंधो व तस्सेव ॥ १ ॥” येषां पुनर्भगवतां वेदनीयादिकमायुषा सह स्वभावत एव समस्थितिकमुपजातं ते समुद्घातं न प्रतिपद्यन्ते, तथा चाह भगवानार्यश्यामः- “अगंतूण समुग्धायमणंता केवली जिणा । जाइमरणविप्पमुक्का, सिद्धिं वरगतिं गया ॥ १ ॥ " ननु प्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणार्थं समुद्धातारम्भः, एतच्चायुक्तं, कृतनाशादिदोषप्रसङ्गात्, तथाहि प्रभूतकालोपभोग्यस्य वेदनीयादेरारत एवापगमसम्पादनात् कृतनाशः, वेदनीयादिवच्च कृतस्यापि कर्म्मक्षयस्य पुनर्विनाशसम्भवात् मोक्षेऽप्यनाश्वासप्रसङ्गः, तदसत्, कृतनाशादिदोषाप्रसङ्गात्, तथाहि - इह यथा प्रतिदिवस सेतिकापरिभोग्येन वर्षशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यतः स्तोकदिवसैर्निःशेषतः परिभोगान्न कृतनाशोपगमः, तथा कर्म्मणोऽपि वेदनीयादेस्तथाविधशुभाध्यवसायानुबन्धादुपक्रमेण साकल्यतो भोगान्न कृतनाशरूपदोषप्रसङ्गः, द्विविधो हि कर्म्मणोऽनुभवः - प्रदेशतो विपाकतश्च तत्र प्रदेशतः सकलमपि कर्म्मानुभूयते, न तदस्ति किञ्चित्कर्म्म यत्प्रदेशतोऽप्यननुभूतं सत् क्षयमुपयाति, ततः कुतः कृतनाशदोषापत्तिः १, विपाकतस्तु किञ्चिन्न, अन्यथा
For Private & Personal Use Only
www.jainelibrary.org