SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education International यानं हस्त्यादि, आवरणं - कवचादि प्रहरणं - खङ्गादि यानावरणप्रहरणानि, तथा युद्धे कुशलत्वं सम्यक् तज्ज्ञता नीतिश्चनिर्गमप्रवेशरूपा दक्षत्वम् - आशुकारिता व्यवसायः - शौर्य शरीरमविकलम् अरोगता - व्याधिवियुक्तता, एतावद्गुणसामग्रीसमन्वित एव योधो जयश्रियमाप्नोति एष दृष्टान्तः, दार्शन्तिकयोजना त्वियम्-जीवो जोहो जाणं क्याणि आवरणमुत्तमा खंती । झाणं पहरणमिद्धं गीयत्थत्तं च कोसलं ॥ १ ॥ दवादिजहोवायाणुरूवपडिवत्तिवत्तिया नीई । दक्खत्तं किरियाणं, जं करणमहीण कालंमि ॥ २ ॥ करणं सहणं च तवोवसग्गदुग्गावतीए ववसातो। एएहिं सुणिरोगो कम्मरिडं जिणइ सद्देहिं ॥ ३ ॥ कर्म्मरिपुविजयपक्षे जीवो योधो, महाव्रतानि - प्राणातिपातविरमणादीनि यानम्, उत्तमा क्षान्तिरावरणं, ध्यानं-धर्म्मध्यानमिष्टं प्रहरणं, कौशलं सम्यग्गीतार्थता, द्रव्यादिषु - द्रव्यक्षेत्रकालभावेषु यथोपायं श्रुतोकोपायानतिक्रमेण याऽनुरूपप्रतिपत्तिवत्तिता, यथा साधूनामेतद् द्रव्यादि एतेनोपायेन देशकालाद्युचितेन कर्त्तव्यं, नैतेनेति, सा नीतिः, तथा क्रियाणां| प्रत्युपेक्षणवैयावृत्त्यादीनां यत् काले - स्वस्वप्रस्तावे अहीनं परिपूर्ण करणं तद् दक्षत्वं, तथा करणं तपसो द्वादशप्रभेदस्य उपलक्षणमेतत् संयमस्य च, सहनं च उपसर्गेषु समापतत्सु, यदिवा दुर्गापदि समागतायां, एष व्यवसायः, एभिर्यानादिभिः | सहितो जीवो योधः सुनीरोगः कर्मरिपुं जयति, विजित्य च समग्रसामायिकश्रियमासादयतीति गाथार्थः ॥ अथवा अनेन प्रकारेणासाद्यते इति दिट्ठे सुयमणुभूए कम्माण खए कए उवसमे य । मणवयणकायजोगे पसत्थे लभए बोही ॥ ८४४ ॥ —दृष्टे भगवत्प्रतिमादौ सामायिकमवाप्यते, यथा स्वयंभूरमणसमुद्रमत्स्येन प्रतिमासंस्थितान् मत्स्यान् प्रतिमासंस्थितानि For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy