SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Jain Education Integ कथंचनापि सीवितं यथा सर्वथा न ज्ञायते, यथा स्वामिसत्कं देवदूष्यं धिग्जातीयेन कारितं ८ । वहइति वर्द्धकिरम्यासतः कोऽप्यमाप्यापि देवकुलरथादीनां प्रमाणं जानाति ९। पूयत्ति आपूपिकः कणिक्कादिकममाप्यापि पूपपरिमाणं जानाति, यथा एतावत्कणिकादेरे तावत्यः पूपा भविष्यन्ति, सर्वा अपि वा समाः करोति १० । 'घडे' ति घटकारः प्रथमत एताव| प्रमाणां मृत्तिकां गृह्णाति यावन्मात्रया विवक्षितं घटादिकं निष्पद्यते इति ११ । चित्तकारेति चित्रकारो अमाप्यापि रेखादिकं प्रमाणयुक्तं चित्रं करोति, तावन्मात्रं वा वर्णकं गृह्णाति यावन्मात्रेण समाप्यते इति २१ । सर्वेषामेतेषां कर्म्मजा बुद्धिः । उक्ता कर्म्मजा बुद्धिः, सम्प्रति पारिणामिक्या लक्षणं प्रतिपादयन्नाह अणुमाण - हे उ-दिट्ठंतसाहिआ वयविवागपरिणामा । हिअनिस्सेयसफलवई बुद्धी परिणामिआ नाम ॥ ९४८ ॥ अनुमानहेतुदृष्टान्तैः साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः परार्थमनुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारको हेतुः, दृष्टमर्थमंतं नयतीति दृष्टान्तः, ननु अनुमानग्रहणादेव दृष्टान्तो गत इति किमर्थमस्योपन्यासः १, तदसम्यक्, अनुमानस्य तत्त्वत एकलक्षणत्वात् उक्तं च - 'अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ १ ॥ इत्यादि साध्योपमाभूतस्तु दृष्टान्तः उक्तं च- 'यः साध्यस्योपमाभूतः स दृष्टान्त इति कथ्यते” इति, वयोविपाकपरिणामा इति कालकृती देहावस्थाविशेषो वयः तद्विपाकेन परिणामः -पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितम् - अभ्युदयः तत्का 1 For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy