SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अर्हनमनप्रभाव: श्रीआवश्यकमलयगिरीय- वृत्तो नमस्कारे ॥५१॥ बारसविहो सुयक्खंधो । सबो अणुचिंतेउं धंतंपि समत्यचित्तेण ॥४॥अत्र 'देसकालत्ति देश:-प्रस्तावस्वरूपः कालो देशकालः, मरणकाल इत्यर्थः, तस्मिन् , घंतंपीति प्राकृतत्वात् लिङ्गव्यत्ययः, धातोऽपि, अत्यन्तमभ्यस्तोऽपीति भावः, तप्पणईणं तम्हा अणुसरियबो सुहेण चित्तेण । एसेव नमोकारो कयन्नुयं मन्नमाणेणं ॥५॥" उपसंहरन्नाह अरिहंतनमुक्कारो, सबपावप्पणासणो। मंगलाणं च सर्सि, पढम हवइ मंगलं ॥ ९२६॥ | अहन्नमस्कारः 'सच्चपावप्पणासणत्ति पासयति-मलिनयति जीवं पिबति हितमिति वा पाति वा रक्षति भवान्निर्गच्छन्तमिति पाप-कर्म, औणादिकः पप्रत्ययः, सर्वम्-अष्टप्रकारमपि पापं कर्म, 'पापं कर्मैव तत्त्वत' इति वचनात्, प्रणाशयति-अपनयतीति सर्वपापप्रणाशनः, मङ्गलानां च सर्वेषां नामादिलक्षणानां प्रथममिति-प्रधानं प्रधानार्थकारित्वात् , अथवा पञ्चामूनि भावमङ्गलानि अहंदादीनि तेषां प्रथम-आद्यं भवति मङ्गलमिति ॥ उक्तस्तावदईनमस्कारः, सम्प्रति सिद्धनमस्कार उच्यते-सिद्ध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नः-परिनिष्ठां प्राप्तो, न पुनः साधनीयः, सिद्धौदनवत्, स सिद्धः, स च सिद्धशब्दसामान्याक्षेपतोऽर्थवस्तावच्चतुर्दशविधः, तत्र नामस्थापनासिद्धौ सुप्रतीतो, द्रव्यसिद्धो ज्ञशरीरभन्य-14 शरीरव्यतिरिक्तः सिद्धः ओदनः, तत्र नामस्थापनाद्रव्यसिद्धान व्युदस्य (शेष) सिद्धप्रतिपादनार्थमाह कम्मे सिप्पे य विजाय, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मकखए इय॥ ९२७॥ कर्मणि सिद्धः कर्मसिद्धः, निष्ठां गत इत्यर्थः, एवं शिल्पसिद्धः विद्यासिद्धःमन्त्रसिद्धो योगसिद्धः आगमसिद्धः अर्थसिद्धः। ॥५११॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy