________________
तथाऽप्यत्रादिनन्तस-ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं द्रष्टव्यम् । आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः तत्कथमुच्यते-जीवं मोचयतीत्यादि ?, उच्यते, यदि तद्भव एव मोक्षाय न भवति, तथापि भावनाविशेषाद्भवति पुनर्बोधिलाभाय, बोधिलाभश्चाचिरादविकलो मोक्षहेतुरित्यतो न दोषः, तथा चाह| अरिहंतनमोकारो धन्नाण भवक्खयं करेंताणं । हिययं अणुम्मुयंतो विसोत्तियावारओ होई ॥९२४ ।।
धनं ज्ञानदर्शनचारित्रलक्षणं लब्धारो धन्याः-साध्वादयः तेषां भवक्षयं-तद्भवजीवितक्षपणं कुर्वतां यावजीवं हृदयममु. वन विश्रोतसिकाया-विमार्गगमनस्यापध्यानस्य वारकोऽर्हन्नमस्कारो भवति, धर्मध्यानैकालम्बनतां करोतीत्यर्थः ॥
अरिहंतनमुक्कारो एवं खलु वण्णिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिवणं कीरए बहुसो॥ ९२५ ॥ ___ अहन्नमस्कार एवम्-उक्तप्रकारेण खलु वर्णितो महार्थ इति-महान् अर्थो यस्य स महार्थः, महार्यता चास्याल्पाक्षरत्वेऽपि
द्वादशाङ्गसङ्घाहित्वात् , कथं पुनरेतदेवमित्याह-यो नमस्कारो मरणे-प्राणोपरमलक्षणे उपाग्रे-समीपे भूते अभीक्ष्णम्-अनदावरतं क्रियते बहुशः-अनेकशः, ततो महत्यामापदि द्वादशाङ्गं मुक्त्वा तत्स्थानेऽनुस्मरणान्महार्थः, इयमत्र भावना-मरणकाले
द्वादशाङ्गपरावर्तनाशक्ती तत्स्थाने तत्कार्यकारित्वात् सर्वैरपि महर्षिभिरेष स्मर्यत इति द्वादशाङ्गसङ्क्राहिता, तद्भावाच्च महार्य इति ॥ तथा चाह भाष्यकृत्-"जलणादिभए सेसं मोत्तुं ए(उद)गरयणं महामोल्लं । जुहि वाऽभिभवे घेप्पइ अमोहसत्थं
जह तहेह ॥१॥ मोत्तुंपि वारसंगं स एव मरणंमि कीरए जम्हा । अरिहंतनमोकारो तम्हा सो बारसंगत्थो॥२॥ सबंपि allवारसंगं परिणामविसुद्धिहेउमेत्तागं । तकारणभावातो कह न तदत्यो नमोक्कारो?॥३॥ न हु तम्मि देसकाले सक्को
Jain Education Inters
For Private & Personal use only
P
w.jainelibrary.org