________________
श्रीआवश्यकमलयगिरीयवृत्तौ नम
अहच्छब्दनिरुक्तिः
स्कारे
FRICORRC
॥५१
॥
अरिहंति वंदणनमंसणाणि अरिहंति पूअसकारे । सिद्धिगमणं च अरिहा अरहता तेण वुचंति ॥ ९२१॥ । का 'अर्ह पूजायाम्' अर्हन्ति वन्दननमस्करणे, तत्र वन्दनं शिरसा, नमस्करणं वाचा, तथा सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, वक्ष्यति-'इहं वॉदि चइत्ताणं तत्थ गत्तूण सिज्झई' तद्गमनं च प्रति अर्हन्तीत्यहा:-योग्याः 'अच' इत्यच, तेन कारणेनार्हन्त उच्यन्ते, अर्हन्तः॥ तथा| देवासुरमणुएसुं अरिहा पूआ सुरुत्तमा जम्हा । अरिणो रयं च हंता अरहंता तेण वुचंति ॥ ९२२॥ | देवासुरमनुजेभ्यः, सूत्रे पञ्चम्यर्थे सप्तमी प्राकृतत्वात् , पूजामहन्ति-प्राप्नुवन्ति, कुत इति चेत् आह-यस्मात् सुरोत्तमाः-उपचितसकलजनासाधारणपुण्यप्राग्भारतया समस्ता देवासुरमनुजोत्तमास्ततः पूजाम्-अष्टमहापातिहार्यलक्षणामहन्तीत्यहन्तः, इत्थमनेकधाऽन्वर्यमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरन्नाह-'अरिणो हंता' इत्यादि, यतः अरीणां हन्तारः, तथा रजो-बध्यमानकं कर्म तस्य रजसो यतो हन्तारस्तेनार्हन्त उच्यन्ते, अरिहन्तार इति रजोहन्तार इति वा | स्थितस्य अर्हत इति निष्पत्तिः प्राग्वत् ॥ इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयति___अरिहंतनमुक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ ९२३ ॥
अर्हतां नमस्कारोऽर्हन्नमस्कारः, इह अर्हच्छब्देन बुद्धिस्था अर्हदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमःशब्द एव, भावेन-उपयोगेन क्रियमाणः, अनेन नामस्थापनाद्रव्यभावलक्षणश्चतुर्विधो यद्यपि नमस्कारस्तथाऽप्यत्र भावनमस्कारो द्रष्टव्य इत्युकं वेदितव्यं, जीवम्-श्रात्मानं मोचयति-अपनयति भवसहस्रेभ्यः, यद्यपि सहस्रशब्दो दशशतसङ्ख्यायां वचते
॥५१०॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org