________________
CA%ACTORSkikick%2:
हासप्पदोसवीमंसा, पुढोवेमायदिबिया । माणुस्सया हासमादी, कुसीलपडिसेवणा ॥२॥ तेरिच्छिया भया दोसा, आहारहा। तहेवय । अवच्चलेणरक्खडा, एए चउहा वियाहिया ॥३॥ घट्टणा पवडणा चेव, थंभणा सणा तज्ञ । आयसंवेवणीया य, उवसग्गा चउबिहा ॥४॥" इत्यादि, अलं प्रसङ्गेन ॥ एतानामयन्तो नमोऽहो इति गाथार्थः॥ सम्प्रति प्राकृतील्याऽनेकधा अर्हच्छब्दनिरुक्तसम्भव इति दर्शयन्नाह- . | इंदियविसयकसाये परीसहे वेयणाओं उवसग्गे । एए अरिणो हन्ता अरिहंता तेण वुचंति ॥९१९॥
इन्द्रियादयः पूर्ववत्, वेदना त्रिविधा-शारीरी मानसी उभयरूपाच, 'एए अरिणो हंता' इत्यत्र प्राकृतल्या अन्दसत्वाच्च विभक्तिव्यत्ययः, ततोऽयमर्थः-एतेपामरीणां हन्तारोऽहन्त इति, पृषोदरादित्वादिष्टरूपनिष्पत्तिः॥ स्यादेतत्-अनन्तरगाथायामेत एवोक्ताः, पुनरप्यमीषामेवेहोपन्यासोऽयुक्तः !, उच्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोकाः, इह पुनरभिधानं, निरुक्तिप्रतिपादनार्थ उपन्यासः॥ साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टा-ज्ञानावरणादि|संज्ञाः सर्वसत्त्वानामेव, तथा चाह
अट्टविहंवि अ कम्मं अरिभूअं होइ सबजीवाणं । तं कम्ममार हता अरिहंता तेण वुचन्ति ॥ ९२०॥ । ___ अष्टविधम्-अष्टप्रकारम् , अपिशब्दादुत्तरप्रकृत्यपेक्षया अनेकप्रकारमपि, चशब्दो भिन्नक्रमः, स चावधारणे, ज्ञानावरणादिकमव अरिभूतं-शत्रुभूतं भवति सर्वजीवानां-सर्वसत्त्वानां, अनवबोधादिदुःखहेतुत्वात् , तत्कर्म अरिं हतारो | यतस्तेनार्हन्त उच्यते, रूपनिष्पत्तिः प्राग्वत् ॥ अथवा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org