________________
च, तत्र बाह्या कर्णपटिकादिरूपा, सा च विचित्रा, न प्रतिनियतसंस्थानरूपतया व्यपदेष्टुं शक्या, तथाहि - मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी भ्रुवा चोपरितनवन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि जातिमेदानानाविधे, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्यामूनि सूत्राणि प्रावर्त्तत, यतः 'सोइंदिए णं भंते! किसंठाणसंठिते पनते १, गोयमा ! मसूरचंदसंठाणसंठिए पण्णचे, घाणिंदिए णं भंते ! किंसंठाणसंठिए पण्णत्ते ?, गोयमा ! अइमुत्तगसंठाणसंठिए पण्णत्ते, जिन्भिदिए णं भंते! किंसंठाणसंटिए पन्नत्ते ?, गोयमा ! खुरप्पसंठाणसंठिए पण्णत्ते, फासिंदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! नाणासंठाणसंठिए पन्नत्ते, " इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, पूर्वसूरिभिस्तथाभिधानात्, उपकरणं खड्गस्थानीयाया बाह्याया निर्वृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियं नान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्य विघातसम्भवात्, तथाहि| सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृत्तौ अतिकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा - लब्धिरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये लब्धिरूपेन्द्रियानुसारेणात्मनो व्यापारः, इह यदि उपयोगापेक्षया संसारिजीवानां चिन्ता क्रियते तदैकस्मिन् काल एकेनैवेन्द्रियेण उपयोगो न शेषैरित्युपयोगापेक्षया सर्वोऽपि संसारिजीव एकेन्द्रियः, उक्तं च - "जो सविसयवावारो सो उवयोगो स वेगकालंमि । एगेण चैव तम्हा उवयोगेगिंदिआ सवे ॥ १ ॥ " लब्धिरपि प्रायः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org