SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ORRORRORKERS मायालोभावेवं परोपघातोवओगतो दोसो । मुच्छोवयोगकाले रागोऽभिस्संगलिंगोत्ति ॥२॥" शब्दादीनां तु मतं-लोभो रागः, क्रोधो द्वेषः, मानमायेत यदा स्वगुणोपकारोपयोगात्मके तदा मूर्छात्मकत्वाल्लोभा, लोभत्वाच रागः, यदातु स्वगुणो. पकारोपयोगविकले तदा परोपघातोपयोगात्मकत्वात् क्रोधः क्रोधत्वाच द्वेषः, उक्तं च-"सद्दाइमयं माणे मायाए य सगुणोवगाराय । उवओगो लोभोच्चिय जतो स तत्थेव अवरुद्धो॥१॥ सेसंसा कोहोच्चिय परोवधायमइयत्ति तो दोसो" इति ॥ अथ कषायद्वारं, शब्दार्थः प्राग्वत् , तेषामष्टविधो निक्षेपः, तद्यथा-नामकषायः स्थापनाकपायः द्रव्यकषायः समुत्पत्तिकषायः ४ प्रत्ययकषायः आदेशकषायः रसकपायःभावकषायः८, आह च-"नाम ठवणादविए, उप्पत्ती पच्चए य आदेसे। रसभावकसाए या नएहिं छहिं मग्गणा तेसि ॥१॥" नामस्थापने सुगमे, द्रव्यकषायो नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्विधा-कर्मद्रव्यकषायो नोकर्मद्रव्यकपायश्च, कर्मद्रव्यकषायश्चतुष्प्रकारः, कषायवेदनीयपुद्गला योग्याः १ बध्यमानाः २ बद्धाः ३ उदीरणावलिकाप्राप्ताश्च ४, नोकर्मद्रव्यकषायः सर्जकषायादिः, उत्पत्तिकषायो यतो द्रव्यादेवीह्यात् कषायप्रभवस्तदेव कषायनिमित्तत्वात् उत्पत्तिकषायः, द्रव्यात् कषायोत्पत्तिः सुप्रतीता, उक्तंच-"किं एत्तो कट्ठः यरं ? जं मूढो खाणुगंमि अप्फिडितो। खाणुस्स तस्स रूसइ न अप्पणो दुप्पयोगस्स ॥१॥" प्रत्ययकषायः खल्वान्तरः कारणविशेषः कषायपुद्गललक्षणः, आदेशकपायः कैतवकृतचकुटिभङ्गराकारः, तस्य हि कषायमन्तरेणापि तथादेशनात् , रसकषायो हरीतक्यादीनां रसः, भावकपायो नोआगमतः कषायोदय एव, स च क्रोधादिभेदाच्चतुष्प्रकारः, तद्यथा-1 क्रोधकषायो मानकषायो मायाकपायो लोभकषायश्च, तत्र क्रोधो नामादिभेदाच्चतुष्पकारः, नामस्थापने क्षुण्णे, नोआग Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy