SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आवश्यक श्रीमलयमिवसरणे इच्छाकार सामाचार ॥३४३॥ अहमित्यात्मनिर्देशे, युष्माकमेतत्कर्तुमभीष्टं कार्य करोमीच्छाकारेण-युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तमपि स कारापकः साधुः 'इच्छन्ति इच्छाकारं 'से' तस्य स्वयमिच्छाकारेण कर्तुमभ्युद्यतस्य करोति, नन्वसौ तेनेच्छाकारेण याचितः किमर्थ इच्छाकारं करोतीत्यत आह-'मर्यादामूलीयं' मर्यादा-साधूनां व्यवस्था तस्यां मूलं मर्यादामूलं तत्र भवो मर्यादामूलीयः इच्छाकारस्तं, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति हेतौ द्वितीया, ततोऽयमर्थः-मर्यादामूलभूत इच्छाकारः, तथाहि-साधूनामियं मर्यादा-न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्यः ॥ तदेवं व्याख्यातोऽधिकृतो गाथावयवः, सम्प्रति 'तत्थवि इच्छाकारों' इत्यत्र योऽपिशब्दस्तस्य विषयं प्रदर्शयति अहवा सयं करंतं किंची अन्नस्स वावि दट्टणं । तस्सवि करेइ इच्छं मज्झपि इमं करेहत्ति ॥ ६७४ ॥ अथवा स्वकम्-आत्मीयं पात्रलेपनादि किश्चित्कुर्वन्तमन्यस्य वा किञ्चित् कुर्वन्तं दृष्टा तथापि, आस्तां प्रागुक्तस्येत्यपिशब्दार्थः, आपन्नप्रयोजनः सन् इच्छाकारं कुर्यात् , कथमित्याह-ममापीदं-पात्रलेपनादि इच्छाकारेण कुरुतेति ॥ इदानीमभ्यर्थितसाधुविषयं विधि प्रदर्शयति तत्थवि सो इच्छे से करेइ दीवेइ कारणं वावि । इहरा अणुग्गहत्थं काय साहणो किच्चं ॥ ६७५॥ का तत्रापि-एवमभ्यर्थकेऽपि साधावभ्यर्थितः साधुरिच्छाकारं करोति, इच्छाम्यहं तव करोमि, अनेन गुर्वादिसत्कं कार्या न्तरं कर्तव्यं तर्हि दीपयति कारपां वापि, इतरथा-गुर्वादिकार्यकर्त्तव्याभावे सत्यनुग्रहार्थमवश्यं साधोः कृत्यं कर्त्तव्यमिति ॥ अपिशब्दाक्षिवेच्छकारविषयविशेषप्रदर्शनार्यवाह-. *-MEMAGE ॥३४॥ For Private & Personal Use Only www.jainelibrary.org Jain Education
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy