________________
सामाचा
आवश्यके श्रीमलयसमवसरणे
WAA%*
॥३४२॥
से' तस्य कर्तुकामस्य कस्यचित्साधोः कारणजातं कुर्यात् तत्रापि तेनानभ्यर्थितेन साधुना तस्य चिकीर्षितं कर्तुकामेन इच्छाकारःप्रयोक्तव्यः, इह विरलाः केचिदनभ्यर्थिता एव परकार्यकार इति कोऽपीति ग्रहणं, अथ कस्मादिच्छाकारप्रयोगः क्रियते ?, उच्यते, बलाभियोगो न कल्पते इति सूचनार्थः, उक्तं यतो-न कल्पते बलाभियोगः साधूनां, तत इच्छाकारप्रयोगः कर्त्तव्यः, तुशब्दः क्वचित् बलाभियोगोऽपि कल्पते इति सूचनार्थः ॥ उक्तगाथावयवार्थप्रतिपादनार्थमाहअब्भुवगयम्मि नजइ अन्भत्थेउं न वदृइ परो उ(ओ)। अणिगूहिअबलविरिएण साहुणा ताव होअचं ॥६६९॥
यदि अभ्यर्थयेत् परमित्येतस्मिन् यदिशब्दप्रदर्शितेऽभ्युपगमे सति ज्ञायते, किमित्याह-अभ्यर्थयितुं न वर्तते-न युज्यते परः, किमित्यत आह-न निगूहते बलवीर्य यस्तेन, वलं शारीरं वीर्यम्-आन्तरः शक्तिविशेषः, तावच्छन्दःप्रस्तुतार्थप्रदर्शक एव, अनिगृहितबलवीर्येण तावत्साधुना भवितव्यं, पाठान्तरं वा “अणिगृहियवलविरिएण जेण साहूण होयई" अस्यायमर्थः-येन कारणेन अनिगृहितबलवीर्येण साधुना भवितव्यमिति युक्तिः ततोऽभ्यर्थयितुं न युज्यते पर इति ॥ आह-इत्थं त_भ्यर्थनाविषयेच्छाकारोपन्यासोऽनर्थकः, उच्यते
जइ हुन्ज तस्स अनलो कजस्स वियाणइ न वा वाणं । गेलन्नाइहिवि हुज्जा वावडो करणेहिं सो॥६७०॥ यदि भवेत्तस्य-प्रस्तुतस्य कार्यस्यानल:-असमर्थः, यदिवा न विजानाति तत्कार्य कत्तुं, वाणमिति निपातः पूरणार्थः, ग्लानादिभिर्वा भवेत् व्यापृतः कारणैरसौ तदा सातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोति ॥ तथाचाह
ACACACAAAAAAA
******
॥३४२॥
*
Jain Education inte
For Private & Personal use only
T
ainelibrary.org