________________
chr
एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणमिच्छाकारः,तथा च-इच्छाकारेण ममेदं कुर्विति, तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः तथा च संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्या-18 | क्रियेयमिति, तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्कं तथेदमित्येवंस्वरूपः, अवश्यंपर्यायोऽवश्यशब्दोअकारान्तोऽप्यस्ति, ततोऽवश्यस्य-अवश्यकर्त्तव्यस्य क्रिया आवश्यकी 'योपान्त्यगुरूपान्त्यमादुनिति वुञ् आवश्यकी,
चः समुच्चये, तथा निषेधेन निवृत्ता नषेधिकी, आपृच्छनमापृच्छा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या, च: पूर्ववित्, तथा प्रतिपृच्छा, सा च प्राग्नियुकेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छन्दनाप्राग्गृहीतेनाशनादिना आमन्त्रणा कार्या, तथा निमन्त्रणा-अगृहीतेनैवाशनादिना अहं भवदर्थमशनाद्यानयामीत्येवंभूता, उपसम्पच्च विधिना देया, एवं काले-कालविषया सामाचारी भवेदशविधा । एवं तावत्समासत उक्का, सम्मति प्रपञ्चतः प्रतिपदमभिधित्सुरिदमाह-एतेषां पदानां तुर्विशेषणे विषयप्रदर्शनेन प्रत्येकं पृथक् पृथक् प्ररूपणां वक्ष्ये इति गाथाद्वयसमासार्थः। तत्रेच्छाकारो येप्वर्थेषु क्रियते तत्प्रदर्शनार्थमाहजह अभत्थिन परं कारणजाए करिज से कोई। तत्धवि इच्छाकारोन कप्पइ बलाभिओगो उ॥ ६६८॥ 'यदि इत्यभ्युपगमे, अन्यथा साधूनामकारणे अभ्यर्थनैव न कल्पते, ततश्च यदि अभ्यर्थयेत् परं-अन्यं साधुं ग्रामादौ कारणजाते समुत्पन्ने सति, ततस्तेनाभ्यर्थयमानेन इच्छाकारः प्रयोकच्या, थदिवा अनभ्यर्थितोऽपि कोऽप्यन्यः साधुः
%%CAKACICC
iKAR**4-%A5%
Jain Education International
For Private & Personal use only
www.jainelibrary.org