________________
स्वावश्यके श्रीमलयसमवसरणे
॥४१॥
पदसमुदायोपचारात् सामाचार्युपक्रमकालो यथायुप्कोपक्रमकालश्चेति द्रष्टव्यं, तत्र समाचरणं समाचारः-शिष्टाचरितः। अद्धाकाक्रियाकलापः, समाचार एव सामाचार्य, भेषजादित्वात् स्वार्थे व्यण, स्त्रीविवक्षायां डी, डन्याम् 'अ' इत्यकारलोपः,6ला यथा'तद्धितव्यञ्जना'दिति यकारलोपः, उपक्रमणम्-उपरितनश्रुतादिह तस्याः सामाचार्या आनयनमुपक्रमः, सामाचार्या
युष्कोउपक्रमः सामाचार्युपक्रमः स चासौ कालश्च सामाचार्युपक्रमकालः, तथा यथायुष्कस्योपक्रमणं-दीर्घकालभोग्यस्व स्वल्प- पक्रमः तरकालेन क्षपणं यथाऽऽयुप्कोपक्रमः स चासौ कालश्च यथायुष्कोपक्रमकालः, तत्र सामाचारी त्रिविधा-ओघे दशविधा पदविभागे च, तत्र ओघः-सामान्यं ओघसामाचारी-सामान्यतः सङ्केपाभिधानरूपा, सा च ओपनियुक्तिः, दशधासामाचारी-इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणि, तत्र ओघसामाचारी नवमात् पूर्वात्तृतीयाद्वस्तुन । आचाराभिधानात्, तत्रापि विंशतितमात् प्राभृतात्, तत्राप्योघप्राभृतात् नियूंढा, एतदुक्तं भवति-साम्प्रतकालप्रव्रजि-18 तानां तावच्छतपरिज्ञानशक्तिविकलानामायुष्कादिहासमपेक्ष्य प्रत्यासन्नीकृतेति, दशविधसामाचारी पुनः षडिंशतितमादुत्तराध्ययनात् स्वल्पतरकालप्रव्रजितपरिज्ञानार्थ नियूंढा, पदविभागसामाचार्यपि छेदसूत्रलक्षणा नवमपूर्वादेव नियूटेति ॥ साम्प्रतमोघनियुक्तिर्वक्तव्या, सा च महत्त्वात् पृथग्ग्रन्थान्तररूपा कृता ॥ सम्प्रति दशविधसामाचारीप्रति-18 पादनार्थमाह
॥३४॥ इच्छा मिच्छा तहक्कारे आवस्सिआ य निसीहिआ। आपुच्छा य पडिपुच्छणा छंदणा य निमंतणा॥ ६६६ ॥ उवसंपया व काले सामायारी भवे दसविहा उ । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं । ६६७ ।।
- Jain Education international
For Private & Personal Use Only
www.jainelibrary.org