________________
क्षणा आवलिका, द्विघाटकदवसः, अहोरात्र अष्टप्रहसवत्सरं, असङ्ख्येय
-CROCOCCALCorte
समयाऽऽवलिअ मुहुत्ता दिवस अहोरत्त पक्ख मासोय।संवच्छर जुग पलिया सागर ओसप्पि परिअहा॥६६३॥
परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टसाटिकापाटनदृष्टान्तादवसेयः, जघन्ययुक्तासंख्यातकसमयसमुदायलक्षणा आवलिका, द्विघटिको मुहर्त्तः, चतुष्पहरात्मको दिवसः, यदिवा यावदाकाशखण्डमादित्येन स्वप्रभाभियाप्तं तावदाकाशपरिभ्रमणच्छिन्नः कालो दिवसः, अहोरात्रःअष्टप्रहरात्मकः, रात्रिंदिवमित्यर्थः, पक्षः पञ्चदशाहोरात्रात्मकः, मासस्तद्विगुणः, चः समुच्चये, संवत्सरो-द्वादशमासात्मको, युगं पञ्चसंवत्सरं, असङ्ख्येययुगात्मकं 'पलिय'त्ति पदैकदेशे पदसमुदायोपचारात् पल्योपमं, 'सागर'त्ति पल्योपमदशकोटीकोट्यात्मकं सागरोपमम्, उत्सर्पिणी-सागरोपमदशकोटीकोव्यात्मिका उत्सर्पिणी, उत्सर्पिणीग्रहणेनावसप्पिण्यपि सूचिता, सापि सागरोपमदशकोटिकोट्यात्मिका, अनन्तोत्सपिण्यात्मकः परावर्तः, स च द्रव्यादिभेदभिन्नः पञ्चसहटीकातो वेदितव्यः॥सम्प्रति यथायुष्ककालद्वारमुच्यतेतत्राद्धाकाल एवायुःकर्मानुभवविशिष्टः सर्वजीवानां वर्तनादिमयो यथायुष्ककालोऽभिधीयते, तथा चाहनेरइय-तिरिय-मणुस्स-देवाण अहाउअंतु जं जेण । निबत्तिअमन्नभवे पालंति अहाउकालो सो॥६६४॥
नारकतिर्यङ्मनुष्यदेवानां यथायुष्कमेव यत् येन निर्वर्तितं-रौद्रध्यानादिना कृतमन्यभवे-अन्यस्मिन् जन्मनि तत् यदा विपाकतस्त एवानुपालयन्ति स यथायुष्ककालः॥ साम्प्रतमुपक्रमद्वारमाह
दुविहोवक्कमकालो सामायारी अहाउअंचेव । सामायारी तिविहा ओहे दसहा पयविभागे ।। ६६५॥. द्विविधश्वासावुपक्रमकालश्च द्विविधोपम्मकालः, तदेव द्वैविध्यमुपदर्शयति-'सामायारी अहाउयं चेव'त्ति पदैकदेशे
अभिन्नः नादिया अमन
Jain Education
For Private & Personal use only
R
ainelibrary.org