________________
व्यकाला
आवश्यक है भावे' इति औदयिकादिभावकालः, सादिसपर्यवसानादिभेदभिन्नो वाच्यः, प्रकृतं तु भावकालेनाधिकारः, एष गाथा- श्रीमलय- समासार्थः ।। साम्प्रतमवयवार्थोऽभिधीयते, तत्र आद्यद्वारावयवार्थमभिधित्सुराहसमवसरणे
| चेयणमचेयणस्स य दबस्स ठिई उ जा चउविगप्पा । सो होइ दवकालो अहवा दवितुतं चेव ॥६६१॥
चेतनस्य-देवादेरचेतनस्य-पुद्गलादेः द्रव्यस्य या स्थान स्थितिः चतुर्विकल्पा-सादिसपर्यवसानादिभेदेन चतुर्भेदा ॥३४०॥ स भवति द्रव्यस्य कालो द्रव्यकालः, अथवा द्रव्यं तु तदेव-द्रव्यमेव कालो द्रव्यकालः॥चेतनाचेतनद्रव्यस्य चतुर्वि
धस्थितिप्रदर्शनार्थमाहगइ सिद्धा भविआ या अभविष पुग्गल अणागयद्धा य । तीयद्ध तिनि काया जीवाजीवडिई चउहा ॥१६॥ __ 'गई'त्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'सिद्ध'त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः, 'भविया या इति भव्याश्च भव्यत्वमधिकृत्य केचन अनादिसपर्यवसानाः, 'अभविय'त्ति अभव्याः खल्वभव्यतया:नाद्यपर्यवसानाः, एवं जीवस्थितिश्चतुर्भङ्गिका, 'पुग्गल'त्ति पूरणगलनधर्माणः पुद्गला-द्विप्रदेशादयः स्कन्धाः, ते च पुद्गगलत्वेन सादिसपर्यवसानाः, तथा 'अणागयद्धा य' इति अनागताद्धा-अनागतकालः, स च वर्तमानसमयादितया सादिः अनन्तत्वादपर्यवसानः, तथा 'तीयद्धति अतीतः कालोऽनन्तत्वादनादिः साम्प्रतसमयविवक्षायां सपर्यवसान इति, तथा तिनि काय'त्ति त्रयः काया:-धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाः खल्वनाद्यपर्यवसानाः, एषा| अजीवचतुर्भङ्गिका, एवं जीवाजीनस्थितिश्चतुर्धेति ॥ साम्प्रतमद्धाकालद्वारावयवार्थप्रतिपादनार्थमाह
ARMANADA%AKSAT
TAGRASCARSANKRAMk
॥३४०n
Jain Education
Jaiainelibrary.org
For Private & Personal Use Only