________________
मासं पाओवगया सऽपि य सबलद्धिसंपन्ना । बजरिसहसंघयणा समचरंसा य संठाणे ॥६५९॥
सर्व एव गणधरा मासं यावत् पादपोपगमनगताः, द्वारगाथोपन्यस्त्रं चशब्दार्थमाहे-सर्वेऽपि सर्वलब्धिसम्पन्ना:आमोंषध्याद्यशेषलब्धिसम्पन्नाः, तथा वज्रर्षभसंहननाः समचतुरस्राश्च संस्थाने संस्थानविषये ॥ उक्तः सामायिकासूत्रप्रणेतृणां तीर्थकरगणधराणां निर्गमः, सम्प्रति क्षेत्रद्वारं प्राप्तावसरं, परमनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वेनान्तरङ्गत्वाद् अन्तरङ्गबहिरङ्गयोश्चान्तरङ्ग एव विधिर्बलवानिति न्यायसामर्थ्यात् क्षेत्रद्वारमुच्यते, द्वारगाथायां तु क्षेत्रस्याल्पवक्तव्यत्वात् प्रथममुपन्यासः कृतः, तत्र कालो नामाघेकादशमेदभिन्नः तत्र नामस्थापने सुज्ञाने इति ते अनाहत्य द्रव्यादिकालप्रतिपादनार्थमाह
दवे अद्ध अहाउअ उवक्कमे देस कालकाले य ।तह य पमाणं वन्ने भावे पगयंत भावेणं ॥ १६०॥ तत्र द्रव्य इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धा' इति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तवर्ती समयादिलक्षणो अद्धाकालो वाच्यः, तथा आयुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा उपक्रमकालः अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरं तस्य कालो देशकालः, अभीष्टवस्त्ववास्यवसरकाल इति भावः, तथा कालकालो वाच्यः, तत्र कलनं कालः, द्वितीयः कालशब्दोमरणवाची, कालस्य कालः कालकालो,मरणक्रियाकलनमित्यर्थः, चः समुच्चये, तथा प्रमाणकालः-अद्धाकाठविशेपो दिवसादिलक्षणो वाच्वः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्णकालः, तथा
MAGASCATAMAX**********
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org