________________
गणधराणामायुरादि
आवश्यके इन्द्रभूतेः सर्वायुर्द्विनवतिर्वाणि, अग्निभूतेश्चतुःसप्ततिः, वायुभूतेः सप्ततिः, व्यक्तस्य अशीतिः, सुधर्मस्य एकं वर्षशत, श्रीमलय- मण्डिकस्य पञ्चनवतिर्वर्षाणि, मौर्यपुत्रस्य त्र्यशीतिः, अकम्पिकस्याष्टसप्ततिः, अचलभ्रातुर्दासप्ततिः, मेतार्यस्य द्वाषष्टिः, समवसरणे, प्रभासस्य चत्वारिंशत् , एवं क्रमेण गणधराणां सर्वायुष्कमिति ॥ आगमद्वारप्रतिपादनार्थमाह
सवे य माहणा जचा, सच्चे अज्झावया विऊ । सच्चे दुवालसंगीआ, सबे चउदसपुविणो ॥ ६५७॥ ॥३३९॥ - सर्वे ब्राह्मणा जात्याः-प्रशस्तजातिकुलोत्पन्नाः, तथा सर्वेऽध्यापका-उपाध्याया विदन्तीति विदो-विद्वांसः, चतु
ईशविद्यास्थानपारगमनात् , तानि चतुर्दश विद्यास्थानान्यमूनि-"अङ्गानि वेदाश्चत्वारो, मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च, विद्या ह्येताश्चतुर्दश ॥१॥" तत्राङ्गानि षट्, तद्यथा-शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिष चेति, एष गृहस्थागम उक्तः, लोकोत्तरागमप्रतिपादनार्थमाह-सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेनापि द्वादशाङ्गाध्ययनेन द्वादशाङ्गिनोऽभिधीयन्ते ततः सम्पूर्णद्वादशाङ्गज्ञापनार्थमाह-सर्वे चतुर्दशपूर्विणः ॥ परिनिर्वाणद्वारमाह| परिनिया गणहरा जीवंते नायए नव जणा उ । इंदभूई सुहम्मो अ रायगिहे निबुए वीरे ॥ ६५८॥
जीवति ज्ञातके-ज्ञातकुलोत्पन्ने वीरे भगवति नव जनाः-इन्द्रभूतिसुधर्मस्वामिवर्जाः परिनिर्वृताः, इन्द्रभूतिः सुधर्मश्च स्वामिनि वीरे निवृते परिनिर्वृतः, तत्रापि प्रथममिन्द्रभूतिः पश्चात्सुधर्मस्वामी, यश्च यश्च कालं करोति स स सुधर्मस्वामिनो गणं ददाति, तेषां तथाविधसन्तानप्रवृत्तिहेतुभूताचार्यासम्भवात्, सुधर्मस्वामी तु कालं कुर्वन् निजशिष्याय जम्बूस्वामिने गणं समर्पितवान् ॥ अधुना तपोद्वारमाह
॥३३॥
Jain Education
For Private & Personal use only
mmmjainelibrary.org