SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Jain Education in पञ्चाशत्, मण्डिकस्य पञ्चषष्टिः, मौर्यस्य त्रिपञ्चाशत्, अकम्पितस्याष्टाचत्वारिंशत्, अचलभ्रातुः षट्चत्वारिंशत्, मेतार्यस्य षट्त्रिंशत्, प्रभासस्य षोडश । अत ऊर्ध्वं छद्मस्थपर्यायं यथाक्रमं कीर्त्तयिष्यामि ॥ प्रतिज्ञातमेवाह तीसा बारस दसगं बारस बायाल चउदसदुगं च । नवगं बारस दस अट्ठगं च छउमत्थपरिआओ ।। ६५२ ।। इन्द्रभूतेश्छद्मस्थपर्यायस्त्रिंशद्वर्षाणि, अग्निभूतेर्द्वादश वायुभूतेर्वर्षदशकं व्यक्तस्य द्वादश सुधर्म्मणो द्वाचत्वारिंशत् मण्डिकस्य चतुर्द्दश मौर्यस्यापि चतुर्दश अकम्पितस्य वर्षनवकं अचल भ्रातुर्द्वादश वर्षाणि मेतार्यस्य दश प्रभासस्य वर्षा - |ष्टकमेषामेव यथाक्रमं छद्मस्थपर्यायः ॥ केवलिपर्यायपरिज्ञानोपायमाह - छउमत्थप्परियागं अगारवासं च वुक्कसित्ताणं । सवाउअस्स सेसं जिणपरियागं वियाणाहि ॥ ६५३ ॥ बारस सोलस अट्ठार सेव अट्ठारसेव अट्ठेव । सोलस सोलस इगवीस चउदस सोले अ सोले अ ॥ ६५४ ॥ छद्मस्थपर्यायमगारवासं च व्यवकलय्य यत् सर्वायुष्कस्य शेषं तत् जिनपर्यायं विजानीहि स चायं जिनपर्यायः, इन्द्रभूतेः केवलिपर्यायो द्वादश वर्षाणि, अग्निभूतेः षोडश, वायुभूतेरष्टादश, व्यक्तस्याष्टादश, सुधर्मणोऽष्टौ मण्डिकस्य पोडश, मौर्यपुत्रस्य षोडश, अकम्पितस्य एकविंशतिः, अचलभ्रातुश्चतुर्दश, मेतार्यस्य षोडश, प्रभासस्य षोडश ॥ सम्प्रति सर्वायुष्कमाह बाणउई चहत्तर सत्तरि तत्तो भवे असीई य । एवं च सयं तत्तो तेसीई पंचनउई आ ।। ६५५ ।। अट्ठन्तरिं च वासा तत्तो वावन्तरिं च वासाई । बावट्ठी चत्ता खल सर्वगणहराउअं एअं ॥ ६५६ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy