________________
# मोरीअसंनिवेसे दो भायर मंडि-मोरिआ जाया।अयलो अ कोसलाए मिहिलाए अपिओजाओ ॥१४॥
तुंगीअसंनिवेसे मेअज्जो वच्छभूमिए जाओ। भगवपि य पभासो रायगिहे गणहरो जाओ॥ ६४५॥ मगधेषु जनपदेषु गोबरग्रामे जातात्रय एवाद्या गणधराः, कथम्भूता एते त्रयोऽपीत्याह-गौतमसगोत्राः सह गोत्रं येषां ते सगोत्राः गौतमेन गोत्रेण सगोत्रा गौतमसगोत्राः, गौतमाभिधगोत्रयुक्ता इत्यर्थः, तथा कोल्लाकसन्निवेशे जातोऽव्यक्तः सुधर्मश्च, मौर्यसन्निवेशे द्वौ धातरौ मण्डिकमौयौं जाती, अचलश्च कोशलायां मिथिलायामकम्पिको जात इति, तुङ्गिके सन्निवेशे वत्सभूमौ कौशाम्बीविषये इत्यर्थः, मेतार्यों जातः, भगवानपि च प्रभासो राजगृहे गणधरो जातः ॥ सम्प्रति कालद्वारावयवार्थः प्रतिपाद्यः, कालश्च नक्षत्रचन्द्रयोगोपलक्षित इति यत् यस्य गणभृतां नक्षत्रं तदभिधित्सुराह
जेट्ठा कत्तिय साई सवणो हत्थुत्तरा महाओ ।रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पुस्सो॥४६॥ । इन्द्रभूतेर्जन्मनक्षत्र ज्येष्ठा अग्निभूतेः कृत्तिकाः वायुभूतेः स्वातिय॑तस्य श्रवणः सुधर्मस्य हस्त उत्तरो यास ता हस्तोत्तरा उत्तराफाल्गुन्य इत्यर्थः, मण्डिकस्य मघाः, मौर्यस्य रोहिणी, अकम्पिकस्य उत्तराषाढा, अचलभातुः मृगशिरः, मेतार्यस्य अश्विनी, प्रभासस्य पुष्यः॥ अधुना जन्मद्वारं प्रतिपाद्यं, जन्म च मातापित्रायत्तमिति गणभृतां मातापितरावेव प्रतिपादयति| वसुभूई धणमित्तो धम्मिल धणदेव मोरिए चेव । देवे बसू अ दत्ते पले अपिअरो गणहराणं ॥ ६४७॥
Jain Education Intematon
For Private & Personal Use Only
www.jainelibrary.org