SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ धर्माधम्मिस्वभावरहितं किञ्चिद्वस्त्वस्ति, धर्माधम्मिभावश्च कल्पित इति तदभावप्रसङ्ग, धर्मा एवं कल्पिता न धम्मी तत्कथमभावप्रसङ्ग इति चेन्न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमाद्, तदभावे धम्मिणोऽप्यभावापत्तेः, अथ तदेवैकं स्वलक्षणं सकलसजातीयव्यावृत्त्येकस्वभाव धम्मि विजातीयव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धर्माः, ततोन कश्चिद्दोषः, तदप्ययुक्तम् , एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात् , नहि येनैव स्वभावेन घटाद् व्यावर्त्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य पटरूपता-6 प्रसके, तथाहि-घटाद् व्यावते पटो घटव्यावृत्तिस्वभावतया, स्तम्भादपि चेत् घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटस्वरूपताप्रसक्तिः, अन्यथा ततस्तत्स्वभावतया तव्यावृत्त्ययोगात् , तस्मात् यतो व्यावर्त्तते यत् तत्तव्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, ते च नैकान्तेन धर्मिणो भिन्नास्तदभावप्रसङ्गात् , तथा च तदवस्थ एव पूर्वोको दोषः, तस्माद्भिन्नाभिन्ना, भेदाभेदोऽपि धर्मधम्मिणोः कथमिति चेत्, उच्यते, इह यद्यपि तादात्म्येन धर्मिणा धर्माः सर्वे लोलीभावेन व्याशास्तथाऽप्ययं धर्मी एते धम्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानुवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वात् अभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति सम्बन्धानुपपत्तिः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्यानभ्युपगमात्, नापि दोषक्षये तदात्मनोऽपि क्षयः, केवळाभेदस्यानभ्युपगमादिति न काचित् क्षतिः॥ 4CACROCOCOCALMAN-M-1-M. मा.स. Jain Education nation For Private & Personal use only m ajainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy