________________
शावश्यके श्रीमलयमिवसरणे .
| ३ ३५ ॥
वेदपदानां चार्य चशब्दात् युक्ति हृदयं च न जानासि, यतस्तेषामयमर्थः 'जराभयं वे 'ति वाशब्दोऽप्यर्थे, ततश्च यदेतदग्निहोत्रं तत् यावज्जीवं - सर्वमपि कालं कर्त्तव्यम्, वाशब्दात् मुमुक्षुभिर्मोक्षहेतुभूतमप्यनुष्ठानं विधेयमिति नापवर्गप्रापणक्रियारम्भकालास्तिता निषिद्धा, तथा यद्यपि रागादयो दोपा जन्तोरनादिमन्तस्तथापि कस्यचित्स्त्रीशरीरादिषु यथावस्थित वस्तुतत्त्वावगमेन तेषां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते, ततः सम्भाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः, अथ यदि प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृष्टस्तथापि तेषामात्यन्तिकोऽपि क्षयः सम्भवतीति कथमवसीयते ?, उच्यते, अन्यत्र तथा प्रतिबन्धग्रहणात्, यथा शीतस्पर्शसम्पाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वह्नेर्मन्दतायां मन्दा उपलब्धाः उत्कर्षे च निरन्वयविनाशधर्म्माणः, ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्य मन्दतादर्शनाद्वाधकोत्कर्षे बाध्यस्यावश्यं निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां मन्दता न स्यात्, अथास्ति ज्ञानस्य ज्ञानावरणीयं बाधकं, ज्ञानावरणीयकर्म्ममन्दतायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीय कर्मोदयोत्कर्षेऽपि न ज्ञानस्य निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तोच्छेदो भविष्यति, तदयुक्त, द्विविधं हि बाध्यं - सहभूस्वभावं तदन्यथाभूतं च तत्र यत् सहभूस्वभावभूतं तन्न कदाचनापि निरन्वयं विनाशमुपयाति, ज्ञानं चात्मनः सहभूस्वभावम्, आत्मा च परिणामिनित्यः, ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्र्म्मोदये ज्ञानस्य न निरन्वयो विनाशः, रागादयस्तु लोभादिकर्म्मविपाकोदय सम्पादित सत्ताकास्ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमपगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादयः, तथापि कर्म्मनिवृत्तों ते निवर्त्तन्ते इति नावश्यं नियमो, नहि
Jain Education International
For Private & Personal Use Only
EXP
प्रभासः
निर्वाण
सिद्धिः
॥ ३३५ ॥
www.jainelibrary.org