SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ बस्वासपातनिका व्याख्या पूर्ववत् । किं मन्ने निधाणं अत्थी नस्थित्ति संसबो तुज्झ । वेयपयाण य अत्यं न याणसी तेसिमो अत्यो ॥६४०॥ किं निर्वाणमस्ति किंवा नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशवस्तव विरुद्धवेदपदश्रुतिनिवन्धनः, तानि च वेदपदान्यमूनि-'जरामर्य वा एतत्सर्व यदग्निहोत्रंतथा 'सैषा गुहा दुरवगाहा' तथा 'देब्रह्मणी परमपरं च, तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्मेति, तेषां चायमर्थस्तव चेतसि वर्त्तते-यदेतदग्निहोत्रं तत् जरामर्यमेव-यावजीवं कर्तव्य-16 मिति, अग्निहोत्रक्रिया च भूतवघहेतुत्वात् सबलरूपा, सा च स्वर्गफलैव स्यात्, नापवर्गफला, यावजीवमिति चोक्ते| कालान्तरं नास्ति यत्रापवर्गहेतुभूतक्रियान्तरारम्भः स्यात् , तस्मात्साधनाभावात् मोक्षाभावः, तदेवममूनि किल वेदपदानि मोक्षामावप्रतिपादकानि, शेषाणि तु तदस्तित्वसूचकानि, यतो गुहाऽत्र मुक्तिरूपा, सा च संसाराभिनन्दिना दुरवगाहा-दुष्प्रवेशा, तथा परं ब्रह्म सत्यं-मोक्षः, अनन्तरं तु ज्ञानमिति, अमूनि मोक्षास्तित्वप्रतिपादकानीति तव संशयः, तथा सौम्य त्वमित्थं मन्यसे-संसारभवो मोक्षः, संसारश्च रागादिनिवन्धनः, रागादीनां चात्यन्तिकः क्षयोऽनुपपन्नः, तथाहि-रागादयो जन्तोरनादिमन्तो, यच्चानादिमत् न तद्विनाशमाविशति, तथा प्रमाणेन प्रतीतेः, तच्च प्रमाणमिदं-यद् अनादिमत् न तद्विनाशमाविशति, यथाऽऽकाशम्, अनादिमन्तश्च रागादय आत्मनो व्यतिरिका वा भवेयुरव्यतिरिक्ता ४ावा, व्यतिरेके सर्वेषां वीतरागत्वप्रसङ्गः, रागादिभ्यो व्यतिरिक्तत्वात्, विवक्षितपुरुषवत्, अथाव्यतिरिक्तास्ततस्तत्प्रक्षये आत्मनोऽपि क्षयप्रसङ्गः, तदव्यतिरिकत्वात्, तत्स्वरूपवत्, तथा च कुतस्तस्य वस्तुतो मोक्ष !, तस्यैवाभावादिति, तत्र Jain Education in For Private & Personal Use Only mjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy