SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलयसमवसरणे * ॥३३४॥ PROGRESSANSAR कुतः परलोकसम्भवः, तत्र वेदानां चाथै, चशब्दाद्युतिं हृदयं च तेषां च वेदपदानामयमर्थः-तत्र विज्ञानघनत्वादीनां मेताः पूर्ववद्वाच्यः, न च भूतसमुदायश्चैतन्यं, सन्निकृष्टदेहोपलब्धावपि चैतन्यविशेषानुपलम्भात्, इह यस्मिन्नुपलब्धेऽपि | परलोकयदवयं नोपलभ्यते तत् ततो भिन्नं, यथा घटात् पटः, नोपलभ्यते च देहोपलब्धावपि चैतन्यविशेष इति, इतश्च सिद्धिः देहादन्यच्चैतन्यं चलनादिचेष्टानिमित्तत्वात् , इह यत् यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मरुत् पादपात्, चलनादिचेष्टानिमित्तं च चैतन्यं देहस्येति न देहस्य धर्मश्चैतन्यं, किन्त्वात्मनः, तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वादुत्पादव्ययध्रौव्ययुक्तत्वाच्च कर्मपरिणामापेक्षा मनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरप्राप्तिरस्त्यवि-15 रुद्रेति परलोकसिद्धिः, यदपि च नित्यानित्यैकान्तपक्षोकं दूषणं तदपि जात्यन्तरात्मकनित्यानित्यशबलरूपपक्षाभ्युपगमेन तिरस्कृतत्वान्न नो दौकत इति ॥ छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पबहतो तिहिं उ सह खंडियसएहिं ॥ ६३७॥ व्याख्या पूर्ववत् । दशमो गणधरः समाप्तः॥ ते पपइए सोउं पभास आगच्छई जिणसगासे । वचामि ण दामी बंदित्ता पखवासामि ॥ ६३८ ।। ॥३३५० व्याख्या पूर्ववत्, नवरं प्रभास आगच्छतीति नानात्वं । आभट्ठो य जिणेणं जाइजरामरमविप्पमुकेण । नामेण य गोत्तेण य सबसबरिसीण ॥ ६३९ ॥ ****** Jain Education inte For Private & Personal use only O mjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy