________________
बन्धमोक्षयोः मंडिकगणधरः
म
आवश्यके उपदेशदानविकलत्वात् , तथा सांसारिकसुखनिवृत्त्यर्थमाह-नवा एष मुक्तात्मा बाह्य-म्रक्चन्दनादिजनितं आभ्यन्तरम्श्रीमलय-13 आभिमानिकं वेद-अनुभवात्मना विजानाति, एवमेतानि वेदपदानि मुक्तात्मस्वरूपप्रतिपादकानि, शेषाणि तु सुप्रती-
तान्येव, तथा जीवोऽनादिनिधनः सत्त्वे सत्यहेतुकत्वात् , कर्मापि प्रवाहतोऽनादिमत् , ततो जीवकर्मणोरनादिमानेव
संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति प्रथमपक्षोक्तदूषणानवकाशः, योऽपि द्वितीयपक्षेऽभिहितो दोषोऽना॥३२९॥ दित्वात्संयोगस्य वियोगाभाव इति, सोऽप्यसमीचीनः, तथादर्शनात्, तथाहि-काञ्चनोपलयोः संयोगोऽनादिसन्त
तिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटमानको दृष्टस्तथा जीवकर्मणोरपि ज्ञानदर्शनचारित्रोपायतो वियोग इति न कश्चिद्दोषः, अथ यद्यनादि सर्व कर्म ततस्तस्य जीवकृतत्वानुपपत्तिः, जीवकृतत्वेऽनादित्वविरोधात्, तदसम्यक्, वस्तुगत्यनववोधात् , तथाहि-जीवेन तथा तथा मिथ्यादर्शनादिसव्यपेक्षेण तदा तदोपादीयते कर्म तेन | जीवेन कृतमित्युच्यते, तच्च तथा प्रवाहापेक्षया चिन्त्यमानमादिविकलमित्यनादि, निदर्शनं चात्र कालो, यथा हि यावान् अतीतः कालस्तेनाशेषेण वर्चमानत्वमनुभूतमथ चासौ प्रवाहतोऽनादिरेवं कर्माणीति, यदप्युक्तं 'मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावादिति, तदप्ययुक्तम् , विशेषाभावासिद्धेः, तथाहि-संसारिजीवः कषायादियुक्तः, कषायादियुक्तश्च कर्मणो| योग्यान् पुद्गलानादत्ते इति तस्य कर्मबन्धोपपत्तिः, मुक्तस्तु कषायादिपरिणामविकला, शुक्लध्यानमाहात्म्यतस्तेषां समू- लमुन्मूलितत्वात् , ततो मुक्त्यवस्थायां कर्मबन्धाप्रसङ्गः, न च वाच्यम्-एवं सति तर्हि निरन्तरं मुक्तिगमनतो भव्यानामुच्छेदप्रसङ्गः, अनन्तानन्तसङ्ग्योपेतत्वात, इह यदनन्तानन्तसङ्ख्योपेतं तत्पतिसमयमेकद्वियादिसत्ययाऽपगच्छदपि
XXX
॥३२९॥
Khw.iainelibrary.org
Jain Education International
For Private & Personal Use Only