SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ वा एष बाह्यम्-आत्मव्यतिरिक्तं महदहकारादि आभ्यन्तरं वा-खरूपमेव वेद-जानाति, प्रकृतिधर्मवाद शानख, प्रकृतेश्चाचेतनत्वादिति बन्धमोक्षानुपपत्तिरिति भावः, तदेवममूनि किल बन्धमोक्षाभावप्रतिपादकावि, तथा नह वै, नैवेत्यर्थः, सशरीरस्य-बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तस्य प्रियाप्रिययोः-सुखदुःखयोरपहतिः-विनाशोऽस्ति, संसारिणः सुखदुःखाभावो नास्तीत्यर्थः, अशरीरं-शरीररहितं सन्तं, वावशब्दो निपातो वाशब्दार्थः, अशरीरी वा सन्तं प्रिया[प्रिये न स्पृशतः, न सुखदुःखे अनुषजतः कारणाभावात् , अमूनि किल वाक्यानि मोक्षाभिधायकानि, ततः संशयः, अन्यच-अयं सौम्य तवाभिप्रायः-बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमान आदिरहितो वा!, तत्र यदि प्रथमो विकल्पस्ततो विकल्पत्रयप्रसङ्गः, किं पूर्वमात्मनः प्रसूतिः पश्चात्कर्मणः यदिवा पूर्व कर्मणः पश्चादात्मनः आहोश्चित् युगपदुभयस्येति, किश्चातः, सर्वत्रापि दोषः, तथाहिन तावदात्मनः पूर्व प्रसूतिनिर्हेतुकत्वात् , व्योमकुसुमवत् , नापि कर्मणः प्राक्प्रसूतिः कर्तुरभावात् , न चाकृतं कर्म भवति, युगपत्प्रसूतिरप्ययुक्ता, कारणाभावात् , न च अनादिमत्यप्यात्मनिरी बन्धो घटामटाट्यते, कारणाभावात् , गगनस्येव, इत्थं चैतदङ्गीकर्तव्यमन्यथा मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावात् , तथा च सति नित्यमुक्तत्वात् मोक्षानुष्ठानवैयर्थ्यमिति, अथ द्वितीयः पक्षस्तर्हि नात्मकर्मवियोगो भवेद अनादित्वात्। आकाशसंयोगवदिति मोक्षानुपपत्तिरिति, तत्र वेदपदानामयमर्थः स एषः-मुक्तात्मा विगताः छाझस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः-ज्ञानात्मना सर्वगतः, केवलज्ञानस्य सकललोकावभासित्वात् , तथा न बध्यते, मिथ्यादर्शनादिवन्धकारणाभावात् , संसरति वा मनुष्यादिभवेषु, नेत्यनुवर्तते, कर्मबीजाभावात् , नापि मुच्यते, मुक्तत्वात्, न मोचयति | ACCRACK+%AM. Jain Education Inte For Private & Personal use only jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy