SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भूतपंचकसिद्धिः व्यक्तगण आवश्यक Pणुत्वेन तुल्यरूपत्वं तत्चदन्यव्यावृत्तिमात्रपरिकल्पितसत्ताकं, यथाऽयमपि परमाणुः परमाणोच्चिोऽयमयपरपरमाणोश्रीमलय दावृत्त इति, नतु परमार्थिक, तदेतदयुक्तं, स्वतस्तुल्यरूपत्वाभावेन तदन्यव्यावृत्तेरपि साधारणाया असम्भवात्, न समवसरणे खलु यथा घटस्याघटाद् व्यावृत्तिस्तथा पटस्यापि, घटेन सह पटस्य तुल्यरूपत्वाभावात् , अथ सर्व स्वलक्षणं सकलं सजा जातीयविजातीयव्यावृत्तिस्वभावं, ततः समानरूपत्वाभावेऽपि विजातीयव्यावृत्तिः समाना, तदपि न युक्तिक्षम, विजाती॥३२६॥ येभ्यो व्यावृत्तौ परमाणुत्वस्येव सजातीयेभ्यो व्यावृत्तावपरमाणुत्वस्य प्रसङ्गात्, न्यायस्य समानत्वाद्, न च भवन्मते सजातीयव्यावृत्तिर्युक्ता, सामान्यस्यैवानभ्युपगमात् , न च सजातीयत्वाभावेऽपि विजातीयव्यावृत्ततापि वस्तुन उपपद्यते, | अनेकखभावानभ्युपगमात्, न चैकेन स्वभावेन सर्वेभ्यो व्यावृत्तिः, तेषां सर्वेषामपि व्यावृत्तिविषयाणामेकरूपताप्रसके, तथाहि-घटाद् व्यावर्त्तते पटो, घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटरूपतानुषक्तिः, अन्यथा है ततस्तत्स्वभावतया व्यावृत्त्ययोगात्, तस्मादवश्यं परमाणूनां द्वे रूपे प्रतिपत्तव्ये तुल्यमतुल्यं च, तत्र तुस्यरूपेण चाक्षुषे विज्ञाने समुदिताः परमाणवः प्रतिभासन्ते इति भूतानां प्रत्यक्षविषयता । यदपि समूहपक्षेऽभिहितं 'परमाणूनां संयोमो देशतो वा स्यात्सर्वात्मना वा' इत्यादि, तत्र पक्षद्धयेऽप्यदोषः, परमाणूनां विचित्रपरिणमनशक्तिसमन्विततया कदाचिदेशतः कदाचित्सर्वात्मना सम्बन्धभावात् , न च वाच्य देशाभ्युपगमे परमाणोः अपरमाणुत्वप्रसङ्गः, परमाणुहिं स उच्यते यतो नान्यदल्पतरं, परमोऽणुः परमाणुरिति व्युत्पत्तेः, न च विवक्षितात्परमाणोरन्यदल्पतरमस्ति ततः परमाणुत्वाव्याघातः, तथा च सति देशकालादिसामग्रीविशेषसम्पादितपरिणामविशेषपरिकल्पितानां परमाणूनां परस्पर %AMACHARMA ॥३२६॥ Jain Education Intel For Private & Personal use only Faujainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy