SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ % A4 A % सासमवायस्यैवासिद्धत्वान् , न खलु वस्तुद्वयापान्तरालवी तत्सम्बन्धनिबन्धनभूतो जतुकल्पः क्वचित्समवायो नाम पदार्थः प्रत्यक्षादिप्रमाणविषयोऽस्ति ततः कथं तमस्तित्वेन मन्यामहे?, अन्यच्च-सोऽपि समवायःस्वसमवायिषुकथं वर्चत इति वाच्यं, तदन्यसमवायवलादिति चेत्, ननु तत्रापि स एव प्रसङ्ग इत्यनवस्थानुषक्तिः, अथ स्वपरोभयसम्बन्धस्वभावः समवायो यथा स्वपरप्रकाशधर्मा प्रदीपः, तेनात्मानं स्वसमवायिभिः सह सम्बन्धयति स्वसमवायिनश्च परस्परमिति, तदप्यमनोरम, विकल्पयुगलानतिक्रमात् , तथाहि-तौ हि स्वभावौ समवायाद्भिनौ वा स्यात् अभिन्नौ वा !, यद्याद्यः पक्षस्ततो न समायस्य तातो, सम्बन्धाभावात् , वस्त्वन्तरधर्मवत् , अथाभिन्नौ ततः समवाय एव तौ, तदव्यतिरिक्तत्वात् तत्स्वरूपवत् , कुतः स्वभाव द्वयकल्पनेति भूतविषय प्रमाणाभावः, एवं विभ्रमे स्फुटीकृते भगवानुत्तरमाह-वेदपदानामर्थ न जानासि, चशब्दात् युक्ति भावार्थ च, तत्र तव संशयनिबन्धनानां वेदपदानामयमर्थ:-स्वनोपमं वै सकलमित्यादीनि अध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्य अनियतत्वात् अस्थिरत्वात् विपाककटुकत्वात् आस्थानिवृत्तिपराणि, न तु तदत्यन्ताभावप्रति|पादकानि, द्यावा पृथिवीत्यादीनि तु भूतसत्ताप्रतिपादकानि भवतोऽपि प्रतीतानि, ततो वेदसिद्धा सिद्धा भूतानां सत्ता, यदप्युक्तं-भूताभाव एव समीचीनस्तेषां प्रमाणेनाग्रहणादित्यादि तदप्यसम्यक्, भूतानां प्रत्यक्षादिप्रमाणसिद्धत्वात् , तथाहि-द्विविधं परमाणूनां रूपं-साधारणमसाधारणं च, तत्र यदसाधारणं रूपं तेन चाक्षुषविज्ञाने न ते प्रतिभासन्ते, साधारणेन तु रूपेण प्रतिभासन्त एव, न च वाच्यं-साधारणं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामपरमाणुत्वप्रसङ्गात् , परमाणुत्वेनापि तुल्यरूपत्वाभावाद्, अन्यथाऽस्मदभ्युपगमप्रसकेः, अथ यदेतत्परमा 4 %A Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy