SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आवश्यक श्रीमलय- समवसरणे धरः ॥३२५॥ ज्ञानस्यालम्बनं परमाणवो वा स्युः परमाणुसमूहो वाऽवयवी वा, तत्र न तापत्परमाणवस्तेषामिन्द्रियविज्ञाने प्रतिभा-19 भूतपंचकसाभावात् , न खलु चाक्षुषे विज्ञाने परस्परविशकलिताः परमाणवः प्रतिभासन्ते, नापि समूहः, समूहो हि नाम द्वित्रा सिद्धिः दिपरमाणूनां संयोगः, स चानुपपन्न एव, विकल्पद्वयानतिकमात्, तथाहि-परमाणूनां संयोगो देशतो वा स्यात् ।। व्यक्तगणसर्वात्मना वा ?, तत्र न तावद्देशेन, परमाणोर्देशाभावाद्, अन्यथा परमाणुत्वक्षतेः, परमोऽणुः परमाणुरिति व्युत्पत्ते, अथ सर्वात्मना पक्षस्तहिं परमाणोः परमाणौ प्रवेशादणुमात्रप्रसक्तिः, तथा च पठन्ति-"संजोगोऽविय तेसिं देसेणं सपहा व होज्जा हि । देसेण कहमणुत्तं? अणुमेत्तं सबहा भवणे ॥१॥ (धर्म.६५१) अथ ब्रूषे-परस्परं प्रत्यासन्नत्वमात्रमेवात्र संयोगसमूहो, न देशेन सर्वात्मना वा, तो न कश्चिद्दोषः, तदप्यसम्यक्, प्रत्येकमिव समुदितानामपि तेषामग्रहणप्रसङ्गात्, स्वस्वरूपावस्थितानां तेषामिन्द्रियगम्यत्वाभावात्, न च परस्परप्रत्यासन्नत्वमभ्युपपन्नं, तझ्यवश्यं पड्दिग्भेदतो भवति, |दिग्भेदे च देशसम्भवादणुत्वव्याघातः, आह च-हाणी य अणुत्तस्सा दिसिभेदातो न अन्नहा घडइ । तेसि मिहो पच्चासन्नयत्ति परिफग्गुमेयंपि ॥१॥(धर्म०६५३) अथावयवीति पक्षः सोऽप्ययुक्तः, अवयविन एवासम्भवात् , तस्यावयवेषु । वृत्त्ययोगात् , तथाहि-सोऽवयवी देशेन वा प्रत्येकमवयवेषु वर्तते सर्वात्मना वा ?, तत्र न तावद्देशेन अवयविनो देशाभावात् , अन्यथा तेष्वपि देशेषु देशेन वर्तेत, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ सर्वात्मना तर्हि यावन्तोऽवयवास्तावन्तोऽवयविन है। इत्यवयविबहुत्वप्रसङ्गः, अथ न झूमो देशेन वर्त्तते सर्वात्मना वा, किन्तु वर्त्तते इत्येव, तत उत्कदोषाप्रसङ्गः, तदप्यश्लीलम्, उत्तरूपप्रकारद्वयव्यतिरेकेणान्यस्य वृत्तिप्रकारस्थासम्भवात् , अथ समवायलक्षणेन सम्बन्धेन वचते इति मन्येथास्तदप्ययुक्त, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy