SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ शरीरभिन्नजीवसिद्धिः वायुभूतिः आवश्यक विलक्षणतया तस्या मूर्तत्वायोगात्, एतच्च प्रागेव भावितम्, न च तस्मिन् सत्येवोपलम्भस्तद्धर्मत्वानुमानायालं, व्यभि- श्रीमलय- INचारदर्शनात्, तथाहि-स्पर्श सत्येव रूपादय उपलभ्यन्ते, न च तेषां तद्धम्मतेति, ततः शरीरातिरिक्तात्माख्यपदार्थसमवसरणे धर्मश्चेतनेति स्थितं, प्रत्यक्षसिद्धोऽप्येष आत्मा,तद्गुणस्यावग्रहादिज्ञानस्य स्पष्टसंवेदनप्रत्यक्षसिद्धत्वात् ,अनुमानगम्योऽपि, तच्चेदं-देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात् , पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत् , इह ॥३२४॥ स्मरणमनुभवपूर्वकतया व्याप्तं, व्याप्यव्यापकभावश्चानयोः प्रत्यक्षेणैव प्रतिपन्नः, तथाहि-योऽर्थोऽनुभूतः स स्मयते न शेषस्तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूते हि विषये यदि स्मरणं भवेत् ततोऽननुभूतत्वाविशेषात् खरविषाणादेरपि स्मरणप्रसक्तिरित्यतिप्रसङ्गा, विवक्षिते देहे विवक्षितेषु च इन्द्रियेषु सत्सूपलभ्यो योऽर्थः स भवान्तरे तद्विगमेऽपि जातिस्मरणे स्मर्यते, ततोऽवश्यं तस्यार्थस्योपलम्भको देहातिरिक्त आत्मा प्रतिपत्तव्यो, न तन्मात्रः, तन्मात्रत्वे तद्विगमे तदुपलब्धार्थानुस्मरणायोगात्, अधिकृतदेहेन्द्रियमात्रेण तस्यानुपलब्धत्वादिति, आगमगम्यता त्वस्य सुप्रसिद्धैव, सत्येन लभ्य इत्यादिवेदप्रमाणाभ्युपगमात् । एवं भगवता व्याकृते स किं कृतवान् ? इत्याह छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पचहतो पंचहिं सह खंडियसएहिं ॥ ६०९॥ ___ अस्या व्याख्या पूर्ववत् । प्रथमगणधरादिदं नानात्वं-तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिक्त खल्वात्मनि, न तु तत्सत्तायामिति । तृतीयो गणधरः समाप्तः ॥ पतिप्रसङ्गो बाधका मतिपन्नः, तथाहिलधार्थानुस्मर्तृदेवदत्त ACAKCHAC+C ॥२४॥ +4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy