SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ -% -* -* -* (本文中学17太平义***Y空卡 * तज्जीवतस्सरीरंति संसओ नवि अ पुच्छसे किंचि । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ ६०८॥ ___ हे आयुष्मन् ! वायुभूते ! तवायं संशयो, यदुत-स एव जीवस्तदेव च शरीरमिति, नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वं मल्लक्षणं क्षोभात्., अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां च वेदपदानामर्थ न जानासि तेन संशयं कुरुषे, तेषां च तव संशयनिबन्धनानां वेदपदानामयमों-वक्ष्यमाण इति गाथार्थः। तानि चामूनि परस्परविरुद्धानि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्ति' इत्यादि, तथा-'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मान' इत्यादि च, एतेषां चायमर्थतव बुद्धौ प्रतिभासते-न देहात्मनो दसंज्ञास्ति, विज्ञानघनेत्यादीनां व्याख्या पूर्ववत्, नवरं न प्रेत्य संज्ञाऽस्ति भूतसमुदयमात्रधर्मत्वाच्चैतन्यस्य, तेन चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, 'सत्येन लभ्यस्तपसा ह्येष' इत्यादीनि तु दहातिरिक्तात्मप्रतिपादकानि ततःसंशयः, युक्ता च भूतसमुदायमात्रधर्माता चेतनायाः, तस्याः भूतसमुदायमात्र एवोपलम्भात् गौरतादिवत्,प्रत्यक्षादिप्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मा इति,तत्र वेदपदानां चार्थ न जानासि, चशब्दात् युक्तिहृदये च, तेषामयमर्थः-तत्र विज्ञानघनेत्यादीनां वेदपदानामर्यः प्रागेव व्याख्यातः, सत्येन | लभ्य इत्यादीनि तु सुप्रतीतानि भूतातिरिक्तात्मप्रतिपादकानि, तथाहि-सत्येन-सत्यवचनेन तपसा-अनशनादिरूपेण । ब्रह्मचर्येण च स्फुटं नित्यं-नियमेन ज्योतिर्मयो-ज्ञानमयः शुद्धो भवति, यं तथाभूतमात्मानं धीराः-परमज्ञानकलिता यतयो-महर्षयः संयनात्मानो-ध्यानकनिषण्णाः पश्यन्ति, न च चेतनाया भूतसमुदायमात्र एवोपलन्भात् भूतधर्माता, *- % इत्यादीलदार यति गारतादिवसातपादका 422 Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy